पूर्वाञ्चलविश्वविद्यालयस्य प्रवेशविवरणिकायाः कुलपतिना कृतं विमोचनम्
जौनपुरम्, ०९ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरजनपदे स्थिते वीरबहादुरसिंह-पूर्वाञ्चलविश्वविद्यालये शैक्षणिकसत्रस्य २०२६–२७ प्रवेशप्रक्रियार्थं सिद्धीकृता प्रवेशविवरणिका गुरुवासरे कुलपतिना प्रो.वन्दनासिंह: इत्यनया विमोचिता। कुलपतिः प्रो.वन्दन
पूर्वांचल विश्वविद्यालय प्रवेश विवरणिका का विमोचन करते हुए कुलपति प्रो वंदना सिंह और अन्य पदाधिकारी


जौनपुरम्, ०९ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरजनपदे स्थिते वीरबहादुरसिंह-पूर्वाञ्चलविश्वविद्यालये शैक्षणिकसत्रस्य २०२६–२७ प्रवेशप्रक्रियार्थं सिद्धीकृता प्रवेशविवरणिका गुरुवासरे कुलपतिना प्रो.वन्दनासिंह: इत्यनया विमोचिता।

कुलपतिः प्रो.वन्दनासिंह: अवदत् यत् प्रवेशविवरणिका विद्यार्थिनां कृते विश्वविद्यालये सञ्चालितानां विविध-पाठ्यक्रमाणां, प्रवेशप्रक्रियायाः, पात्रतायाः, शुल्कस्य, महत्त्वपूर्ण-दिनाङ्कानां तथा अन्यासामावश्यक-सूचनानां महत्त्वपूर्णः सङ्ग्रहः अस्ति। तया प्रवेशप्रक्रियायाः पारदर्शितया, सरलतया तथा समयबद्धरीत्या सञ्चालनस्य आवश्यकता प्रतिपादिता।

प्रवेशसमितेः संयोजकः प्रो. मिथिलेशसिंह: अवदत् यत् विश्वविद्यालये सञ्चालितेषु विविधेषु स्नातक-स्नातकोत्तर- तथा अन्येषु व्यावसायिकपाठ्यक्रमेषु प्रवेशप्रक्रिया निर्धारितकार्यक्रमानुसारं सञ्चालिता भविष्यति। तेन अभ्यर्थिनः प्रार्थिताः यत् ते प्रवेशेन सम्बद्धानां नवीनतमानां सूचनानां, महत्त्वपूर्णानां दिनाङ्कानां तथा अन्येषाम् आवश्यकनिर्देशानां ज्ञानार्थं विश्व-विद्यालयस्य आधिकारिकजालपुटस्य नियमितम् अवलोकनं कुर्वन्तु, येन ते कस्याचिदपि महत्त्वपूर्णायाः सूचनायाः वञ्चिताः न भवेयुः।

अस्मिन् अवसरे प्रवेशसमितेः अध्यक्षः प्रो. रजनीशभास्करः, छात्रकल्याणाधिष्ठाता प्रो. प्रमोदकुमार: यादवः, प्रो. गिरिधर: मिश्रः, कुलसचिवः डाॅ. विनोदकुमार: सिंहः, उपकुलसचिवः अजीत: सिंहः, डाॅ. धीरेंद्र: चौधरी, डाॅ. सुजीत: चौरसिया इत्यादयः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan