Enter your Email Address to subscribe to our newsletters


लखनऊ, 09 जुलाईमासः (हि.स.)।उत्तरप्रदेशस्य पशुपालनविभागेन पशुचिकित्सकानां कृते पशुभ्यः मनुष्येषु प्रसार्यमाणानां रोगाणां प्राथमिकपशुरोगाणां च निवारणार्थं लखनऊनगरस्य एकस्मिन् अतिथिगृहे द्विदिवसीया प्रशिक्षणकार्यशाला आयोजिता। कार्यशालायाः शुभारम्भः गुरुवासरे पशुपालनविभागस्य विशेषसचिवेन देवेन्द्रकुमारपाण्डेयेन कृतः।
अस्मिन्नवसरे पशुचिकित्सकान् सम्बोधयन् देवेन्द्रकुमारपाण्डेयः उक्तवान् यत् अनेकाः गम्भीराः व्याधयः पशूनां विषाणुभ्यः उत्पन्नाः सन्ति। अस्याः कार्यशालायाः अनन्तरं पशुपालनविभागस्य विशेषज्ञाः जनपदेषु गत्वा विभागीयचिकित्सकान् प्रशिक्षणं प्रदास्यन्ति।
सः उक्तवान् यत् कस्यापि सङ्क्रमणस्य प्रसारात् पूर्वमेव तस्य अभिज्ञानं करिष्यामः। अनेन तत्रैव तत् नियन्त्रयितुं शक्यते। गोरखपुरपीलीभीतजनपदयोः अतिरिक्तं प्रदेशे यावन्ति रामसरस्थलानि सन्ति तेषु विशेषाभियानं सञ्चालयिष्यते।
डा संजयत्रिपाठी आभारं प्रकटितवान्। कार्यशालायां पशुपालनविभागस्य संयुक्तनिदेशकः डा राहुलचन्द्रा डा विवेकानन्दगंगवारः निदेशिका डा सङ्गीतातिवारी डा राजेन्द्रप्रसादश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani