डॉ. पण्ड्या आईपीयू-संस्थायाः सेक्रेटरी-जनरल इत्यनया सह अमिलत्, विविधविषयेषु जाता चर्चा
हरिद्वारनगरम्, ०९ जुलाईमासः (हि.स.)। शान्तिकुञ्जस्थितस्य देवसंस्कृति-विश्वविद्यालयस्य प्रतिकुलपतिः डॉ. चिन्मयपण्ड्या स्विट्जरलैण्डदेशस्य प्रवासकाले जिनीवानगरे अन्तस्संसदीय-सङ्घस्य सेक्रेटरी-जनरल सुश्री-आण्डा-फिलिप-महोदयया सह सौहार्दपूर्णं साक्षात्क
भेंट करते डा. चिन्मय पण्ड्या


हरिद्वारनगरम्, ०९ जुलाईमासः (हि.स.)। शान्तिकुञ्जस्थितस्य देवसंस्कृति-विश्वविद्यालयस्य प्रतिकुलपतिः डॉ. चिन्मयपण्ड्या स्विट्जरलैण्डदेशस्य प्रवासकाले जिनीवानगरे अन्तस्संसदीय-सङ्घस्य सेक्रेटरी-जनरल सुश्री-आण्डा-फिलिप-महोदयया सह सौहार्दपूर्णं साक्षात्कारम् अकरोत् तथा वैश्विकमहत्त्व-युक्तेषु समसामयिकेषु विषयेषु विस्तृतं विचारविनिमयं कृतवान्।

शान्तिकुञ्जस्य पत्रकारविभागेन प्रकाशितायां विज्ञप्तौ उक्तं यत् अस्मिन् अवसरे डॉ.पण्ड्यामहोदयेन अखिलविश्व-गायत्रीपरिवारस्य वैश्विकलक्ष्याणि, फेथ एण्ड एआई, मूल्यानिष्ठनेतृत्वम्, अन्तर्धार्मिक-सहकार्यं तथा मानव-केन्द्रित-कृत्रिमबुद्धिमत्ता इत्यादिषु विषयेषु चर्चा कृता। शान्तिकुञ्जस्य प्रतिनिधिः डॉ. पण्ड्या भारतीयज्ञान-परम्परायाः तथा वसुधैव कुटुम्बकम् इत्यस्य भावनायाः आधारेण स्वदृष्टिकोणं प्रस्तुतवान्। तेन उक्तं यत् कृत्रिमबुद्धिमत्तायाः विकासः मानवीय-मूल्यैः, नैतिकतया तथा वैश्विककल्याणस्य भावनया सह एव भवितुमर्हति।

तेन उक्तं यत् प्रौद्योगिक्याः प्रगत्या सह आध्यात्मिकदृष्टिः तथा नैतिकनेतृत्वमपि समानरूपेण आवश्यकम् अस्ति।

विज्ञप्तौ अपि निर्दिष्टं यत् स्विट्जरलैण्ड-प्रवासकाले डॉ. पण्ड्या आईपीयू-संस्थायाः कन्सल्टेशन-समूहस्य सभायामपि सहभागितां कृतवान्। अस्यां सभायां विभिन्नदेशानां नीतिनिर्मातारः, कूट-नीतिज्ञाः, शिक्षाविदः, प्रौद्योगिकी-विशेषज्ञाः तथा अन्ताराष्ट्रियसंस्थानां प्रतिनिधयः कृत्रिमबुद्धिमत्ता, लोकतान्त्रिकमूल्यानि तथा वैश्विकसहकार्यं इत्यादिषु विषयेषु स्वविचारान् विनिमयम् अकुर्वन्। डॉ. पण्ड्या भारतीयाध्यात्मस्य, सांस्कृतिक-मूल्यानां तथा मानव-कल्याणस्य अवधारणां अन्ताराष्ट्रियमञ्चे प्रभावक-रूपेण प्रस्तुतवान्।

Hindusthan Samachar / Divya Ranjan