राज्यपालेन आनंदीबेन पटेलेन अवध विश्वविद्यालये मियावाकी वनं समेत्य बहूनां कार्याणाम् अकरोत् लोकार्पणम्
अयोध्या, 10 अगस्तमासः (हि.स.)। डॉ. राममनोहरलोहियाअवधविश्वविद्यालयस्य नूतनपरिसरे विकासकार्याणां गतिं वर्धयन्ती राज्यपालः आनन्दीबेनपटेलः सोमवासरे विभिन्नमहत्त्वपूर्णपरियोजनानाम् उद्घाटनं कृतवती। कुलाधिपतिः आनन्दीबेनपटेलः नूतनपरिसरे विशेषरूपेण निर्म
राज्यपाल उद्घाटन


अयोध्या, 10 अगस्तमासः (हि.स.)।

डॉ. राममनोहरलोहियाअवधविश्वविद्यालयस्य नूतनपरिसरे विकासकार्याणां गतिं वर्धयन्ती राज्यपालः आनन्दीबेनपटेलः सोमवासरे विभिन्नमहत्त्वपूर्णपरियोजनानाम् उद्घाटनं कृतवती। कुलाधिपतिः आनन्दीबेनपटेलः नूतनपरिसरे विशेषरूपेण निर्मितस्य मियावाकीवनस्य, ईडीपीभूतलस्य तथा एकादशकेवी विद्युत्उपकेन्द्रस्य च औपचारिकम् उद्घाटनं कृतवती। अस्मिन् अवसरे सा नूतनपरिसरे प्रचलतां समस्तनिर्माणविकासकार्याणां स्थलीयनिरीक्षणं कृतवती तथा सम्बन्धिताधिकारिभ्यः निर्माणसंस्थाप्रतिनिधिभ्यश्च प्रगतेः विस्तृतां सूचनां प्राप्तवती।

पर्यावरणसंरक्षणस्य हरितपरिसरस्य च दिशि स्थापितं मियावाकीवनं समग्रतया द्वात्रिंशत्सहस्रवर्गफीटपरिमिते क्षेत्रे निर्मितम् अस्ति। अस्मिन् वने भ्रमणार्थं प्रायः एककिलोमीटरदीर्घः वक्राकारः मार्गः निर्मितः अस्ति। जैवविविधतां वर्धयितुम् उद्दिश्य अस्मिन् सघने वने एकादशशताधिकाः विभिन्नप्रजातीयाः पादपाः रोपिताः सन्ति।

----------------

Hindusthan Samachar / Dheeraj Maithani