श्रावणस्य द्वितीये सोमवासरे हर-हर महादेवस्य जयकारेण गूंजिता अयोध्या
अयोध्या, 10 अगस्तमासः (हि.स.)।श्रावणमासस्य द्वितीयसोमवासरे रामनगरी अयोध्या ‘हर हर महादेव’, ‘बम बम भोले’ इत्यादीनां जयघोषैः गुंजायमाना अभवत्। जिलाधिकारी शशाङ्कत्रिपाठिना सह वरिष्ठपुलिसाधीक्षकः गौरवग्रोवरः स्थलीयनिरीक्षणं कृत्वा व्यवस्थायाः जायमानस्थ
अधिकारियों का निरीक्षण


अयोध्या, 10 अगस्तमासः (हि.स.)।श्रावणमासस्य द्वितीयसोमवासरे रामनगरी अयोध्या ‘हर हर महादेव’, ‘बम बम भोले’ इत्यादीनां जयघोषैः गुंजायमाना अभवत्। जिलाधिकारी शशाङ्कत्रिपाठिना सह वरिष्ठपुलिसाधीक्षकः गौरवग्रोवरः स्थलीयनिरीक्षणं कृत्वा व्यवस्थायाः जायमानस्थितेः अवलोकनं कृतवन्तौ।

प्रातःकालादेव सहस्रशः श्रद्धालवः भगवान् शिवस्य दर्शनाय जलाभिषेकाय च शिवालयेषु समागन्तुम् आरब्धवन्तः। श्रद्धालवः सर्वप्रथमं पवित्रायां सरयूनद्यां स्नानं कृत्वा श्रद्धया अवगाहनं कृतवन्तः। सरयूस्नानानन्तरं भक्ताः प्राचीनं नागेश्वरनाथमन्दिरं प्राप्तवन्तः तथा भगवान् भोलेनाथस्य जलाभिषेकं कृतवन्तः।

जनश्रुत्यानुसारं नागेश्वरनाथमन्दिरस्य स्थापना भगवान् श्रीरामस्य पुत्रेण कुशेन कृता आसीत्। नागेश्वरनाथमन्दिरे श्रद्धालूनां महतीं भीडं दृष्ट्वा चरणबद्धरीत्या प्रवेशः प्रदीयते। सुरक्षाव्यवस्थायै मन्दिरपरिसरे तदनुसंलग्नेषु च क्षेत्रेषु पुलिसबलं नियुक्तम् अस्ति। जनसमूहस्य नियन्त्रणाय बैरिकेड्-व्यवस्था तथा विशेषनिगराणीव्यवस्था च कृता अस्ति।

अयोध्यानगरस्य सह ग्रामीणक्षेत्रेषु स्थितेषु शिवालयेष्वपि श्रद्धालूनां दीर्घाः पङ्क्तयः दृश्यन्ते। भक्ताः भगवान् शिवस्य जलाभिषेकं कृत्वा परिवारस्य सुखसमृद्ध्यै, स्वास्थ्याय, देशस्य च समृद्धये मङ्गलकामनां कुर्वन्ति।

-----------

Hindusthan Samachar / Dheeraj Maithani