मायावत्या भाजपा-आपाभ्यां सतर्काः भवितुं समाजस्य जनानाम् आह्वानं कृतवती
लखनऊ, १० अगस्तमासः (हि.स.)। बहुजन-समाज-पार्टी इत्यस्य राष्ट्रिया-ध्यक्षा मायावत्या सन्त-रविदासस्य नाम्ना कलशयात्रायाः आयोजनं प्रति भारतीय-जनता-पक्षस्य आलोचनां कृतवती। सा अवदत् यत् पञ्जाबे निर्वाचनं समीपम् आगच्छति चेत् भाजपा समाजं भ्रमयितुं प्रयत्नं
सांकेतिक फोटो


लखनऊ, १० अगस्तमासः (हि.स.)। बहुजन-समाज-पार्टी इत्यस्य राष्ट्रिया-ध्यक्षा मायावत्या सन्त-रविदासस्य नाम्ना कलशयात्रायाः आयोजनं प्रति भारतीय-जनता-पक्षस्य आलोचनां कृतवती। सा अवदत् यत् पञ्जाबे निर्वाचनं समीपम् आगच्छति चेत् भाजपा समाजं भ्रमयितुं प्रयत्नं करोति। सा स्वसमाजस्य जनान् भाजपया सह आम-आदमी-पक्षस्य च मतपेढी-राजनीत्याः विषये सतर्काः भवितुं आह्वानं कृतवती।

मायावत्या सोमवासरे ‘एक्स’-पटले लिखितं यत् यथाविदितं १० अगस्त २०१९ तमे वर्षे देहल्याः तुगलकाबादे सन्त-रविदासस्य पवित्रं गुरुगृहं विशालस्य पुलिसबलस्य उपस्थितौ बुलडोजर-यन्त्रेण ध्वस्तं कृतम् आसीत्। अस्य विरोधे देशस्य सर्वत्र सङ्गतिः यदा लोकतान्त्रीकरीत्या मार्गेषु अवतरिता, तदा तस्याः दंडप्रहारस्य, अश्रुवाते:, ग्रहणस्य, अभियोगानां च सामना कर्तुं अभवत्। बहवः जनाः कारागारमपि गन्तुं बाधिताः। न केवलम्, गुरुगृहस्य भूमिरपि हृता तथा अद्यापि सङ्गतिः लौहस्य अस्थायि-टीन-छदने स्वगुरुजीं प्रति प्रणामं कर्तुं विवशा अस्ति।

मायावत्या अवदत् यत् अधुना पञ्जाबे निर्वाचनं समीपम् अस्ति, अतः भाजपा सन्त-रविदासस्य नाम्ना कलशयात्राम् आयोज्य गुरुजी-प्रदर्शितस्य बेगमपुर-नगरस्य लक्ष्यतः समाजस्य जनान् विमुखान् कर्तुं प्रयत्नं करोति। अपरतः पञ्जाबस्य धलेता-ग्रामे गुरुगृहस्य भित्तेः पातने सङ्गत्या बसपया च यदा स्वरः उत्थापितः, तदा ग्रहणानि कृतानि। अन्ते पुनः आम-आदमी-पक्षस्य सर्वकारः नतिं स्वीकर्तुं बाधितः अभवत् तथा गुरुगृहस्य पुनर्निर्माणं कारितम्।

Hindusthan Samachar / Divya Ranjan