मुख्यमंत्री विष्णु देव सायः अद्य तिरंगायात्रायां सम्मेलिष्यते
रायपुरम्, 10 अगस्तमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः अद्य रायपुरनगरे आयोजितायां भारतीयजनतापक्षस्य तिरङ्गायात्रायां सम्मिलितः भविष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ९ वादने ५० निमेषे जशपुरतः रायपुरं प्राप्स्यति।
मुख्यमंत्री विष्णु देव साय


रायपुरम्, 10 अगस्तमासः (हि.स.)।

छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः अद्य रायपुरनगरे आयोजितायां भारतीयजनतापक्षस्य तिरङ्गायात्रायां सम्मिलितः भविष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ९ वादने ५० निमेषे जशपुरतः रायपुरं प्राप्स्यति।

रायपुरस्य हेलीपैडस्थले प्रातः ११ वादने १५ निमेषे प्राप्त्वा मुख्यमन्त्री प्रत्यक्षम् इन्डोर-स्टेडियमं गमिष्यति, यत्र आयोजिते तिरङ्गायात्रायाः कार्यक्रमे सः भागं ग्रहीष्यति। कार्यक्रमस्य अनन्तरं सः अपराह्ने प्रायः १ वादने सुभाष-स्टेडियमतः मुख्यमन्त्रिनिवासं प्रति प्रस्थास्यति।

उल्लेखनीयं यत् तिरङ्गायात्रायाः माध्यमेन स्वातन्त्र्यसेनानीनां योगदानं स्मर्तुं, राष्ट्रियैकतायाः अखण्डतायाश्च सन्देशं प्रसारयितुं तथा युवकेषु राष्ट्रभक्तेः भावनां सुदृढां कर्तुं प्रयासः क्रियते। यात्रायां बहुसंख्यकाः जनाः हस्तेषु तिरङ्गं धृत्वा सम्मिलिताः भविष्यन्ति।

Hindusthan Samachar / Dheeraj Maithani