मुख्यमंत्री रेखा गुप्ता ‘विद्या वाहिनी योजनायाः अंतर्गते द्विशतच्छात्राभ्यो वितरिताः द्विचक्रिकाः
नव दिल्ली, 10 अगस्तमासः (हि.स.)।दिल्लीप्रदेशस्य मुख्यमन्त्रिणी रेखा गुप्ता ‘विद्यावाहिनी योजनायाः’ अन्तर्गतं सोमवासरे विधानसभापरिसरे नवमकक्षायां अध्ययनरताभ्यः छात्राभ्यः द्विचक्रिकाः वितरितवती। अस्मिन् अवसरे उत्तरजिल्हायाः सप्तमक्षेत्रस्य द्विशतं छ
मुख्यमंत्री रेखा गुप्ता मंत्री आशीष सूद के साथ छात्राओं को साइकिलें वितरित कीं।


नव दिल्ली, 10 अगस्तमासः (हि.स.)।दिल्लीप्रदेशस्य मुख्यमन्त्रिणी रेखा गुप्ता ‘विद्यावाहिनी योजनायाः’ अन्तर्गतं सोमवासरे विधानसभापरिसरे नवमकक्षायां अध्ययनरताभ्यः छात्राभ्यः द्विचक्रिकाः वितरितवती। अस्मिन् अवसरे उत्तरजिल्हायाः सप्तमक्षेत्रस्य द्विशतं छात्राभ्यः द्विचक्रिकाः प्रदत्ताः। एषा योजना छात्राणां विद्यालयगमनागमनं सुकरं कर्तुं, तासां शिक्षायाः सातत्यं, आत्मविश्वासं तथा आत्मनिर्भरत्वं च वर्धयितुं महत्त्वपूर्णं पदक्षेपम् अस्ति।

अस्मिन् अवसरे द्विचक्रिकां प्राप्तवत्यः छात्राः अवदन् यत् द्विचक्रिकाप्राप्त्या तासां विद्यालयगमनागमनं सुकरं भविष्यति, समयस्य रक्षणं भविष्यति तथा अधिकेन आत्मविश्वासेन ताः स्वीयां शिक्षां निरन्तरं कर्तुं शक्नुवन्ति।

मुख्यमन्त्रिणी रेखा गुप्ता छात्राभिः सह संवादं कुर्वती ताभ्यः द्विचक्रिकाप्राप्तेः अभिनन्दनं कृतवती। सा अवदत् यत् एका द्विचक्रिका केवलं गमनागमनस्य साधनं न, अपितु पुत्रीणां शिक्षायाः तासां स्वप्नानां च अग्रे विकासस्य माध्यमम् अपि अस्ति। सर्वकारस्य प्रयासः अस्ति यत् कस्याश्चित् अपि पुत्र्याः विद्यालयं प्रति गन्तुं मार्गे विद्यमाना दूरी अथवा परिवहनसम्बन्धी समस्या तस्याः शिक्षायाः मार्गे बाधा न भवेत्।

सा अवदत् यत् ‘विद्यावाहिनी योजनायाः’ माध्यमेन दिल्लीसर्वकारः पुत्रीणां शिक्षां अधिकं सुलभां सुविधाजनकां च कर्तुं प्रतिबद्धः अस्ति। सा अवगतं कारितवती यत् अस्मिन् वर्षे नवमकक्षायां पठन्तीनां प्रायः एकलक्षचत्वारिंशत्सहस्रं छात्राणां कृते योजनायाः अन्तर्गतं द्विचक्रिकाः वितरिताः सन्ति। पुत्रीणां शिक्षायां कृतः निवेशः समाजस्य उज्ज्वलभविष्ये कृतः निवेशः अस्ति। सर्वकारः निरन्तरं कार्यं कुर्वन् अस्ति यत् दिल्लीप्रदेशस्य पुत्रीभ्यः शिक्षा, आधुनिकसुविधाः तथा अग्रे विकासाय समानाः अवसराः प्राप्येरन्।

मुख्यमन्त्रिणी छात्राः प्रेरयन्ती अवदत् यत् ताः अस्याः सुविधायाः उपयोगं स्वीयां शिक्षां अधिकं सुदृढां कर्तुं कुर्वन्तु, स्वीयानि लक्ष्याणि निर्धारयन्तु तथा पूर्णेन आत्मविश्वासेन अग्रे गच्छन्तु। दिल्लीसर्वकारस्य लक्ष्यं विद्यार्थिभ्यः उत्तमशिक्षया सह समग्रं समर्थं च वातावरणं प्रदातुम् अस्ति, येन प्रत्येकः विद्यार्थी विना कस्यापि बाधया स्वप्नानां दिशि अग्रे गन्तुं शक्नुयात्।

अस्मिन् अवसरे दिल्लीप्रदेशस्य शिक्षामन्त्री आशीष सूदः अवदत् यत् मुख्यमन्त्रिण्याः रेखा गुप्तायाः दूरदर्शिनः नेतृत्वे दिल्लीप्रदेशः विद्यालयीयशिक्षाक्षेत्रे ऐतिहासिकपरिवर्तनस्य दिशि अग्रे गच्छति। अद्य प्रतिभावतीभ्यः छात्राभ्यः द्विचक्रिकाणां वितरणं केवलं गमनागमनस्य साधनं प्रदातुं सीमितं नास्ति, अपितु ताभ्यः आत्मनिर्भरत्वं प्राप्तुं, बाधाः अतिक्रमितुं तथा स्वप्नानां साकारं कर्तुं पक्षौ प्रदातुं दिशि महत्त्वपूर्णः पदक्षेपः अस्ति। सः अवदत् यत् मुख्यमन्त्रिण्याः निरन्तरसहयोगाय नारीशक्तेः प्रति तस्याः अखण्डप्रतिबद्धतायै च सः कृतज्ञतां प्रकटयति।

---------------

Hindusthan Samachar / Dheeraj Maithani