Enter your Email Address to subscribe to our newsletters

कानपुरम्, १० अगस्तमासः (हि.स.)। अजापालनं ग्रामीण-युवभ्यः कृषकेभ्यश्च स्व-रोजगारस्य उत्तमं माध्यमम् अस्ति। अनेन नियमित-आयेन सह स्थानीयस्तरे रोजगारस्य अवसराः अपि वर्धन्ते। एतानि उक्तानि सोमवासरे कृषि-विज्ञान-केन्द्रस्य दलीपनगरस्य वरिष्ठ-वैज्ञानिकेन डॉ. अरुण-कुमार-सिंहेन पञ्चदिवसीय-अजापालन-प्रशिक्षण-कार्यक्रमस्य शुभारम्भ-अवसरे।
चन्द्रशेखर-आजाद-कृषि-प्रौद्योगिकी-विश्वविद्यालयस्य कृषि-विज्ञान-केन्द्रे दलीपनगरे प्रारब्धे अस्मिन् प्रशिक्षण-कार्यक्रमे कानपुर-देहातस्य विभिन्न-विकासखण्डेभ्यः २५ कृषकाः भागं गृह्णन्ति। प्रशिक्षणस्य उद्देश्यम् अस्ति यत् कृषकेभ्यः वैज्ञानिक-विधिना अजापालनस्य सूचनां प्रदाय अल्प-व्ययेन अधिक-लाभाय तान् सज्जीकर्तुम्।
डॉ. अरुण-कुमार-सिंहेन युवभ्यः कृषकेभ्यश्च आत्मनिर्भराः भवितुं अजा-पालनम् इव लघु-पशुपालन-व्यवसायं स्वीकर्तुं प्रेरणा प्रदत्ता। तेन उक्तं यत् वैज्ञानिक-प्रविधिम् अनुसृत्य अजापालनं व्यावसायिकरूपं दातुं शक्यते तथा अनेन ग्रामीण-परिवाराणाम् आयं वर्धयितुं सहायता भविष्यति।
पशुपालन-वैज्ञानिकेन डॉ. शशिकान्तेन कृषकेभ्यः भारतवर्षे अजापालनस्य स्थितेः, प्रमुखाणां जातिनां परिचयस्य तथा प्रजनन-प्रबन्धनस्य च विषये सूचना प्रदत्ता। तेन अजापशूनां पोषणम्, आवासः, स्थापनं तथा उत्पादानां मूल्यवर्धन-सम्बद्धान् पक्षान् अपि स्पष्टीकृतम्। वैज्ञानिक-विधिना अजापालनं कृत्वा अल्प-व्ययेन उत्तम-उत्पादनं अधिक-लाभं च प्राप्तुं उपायाः अपि उक्ताः।
पञ्चदिवसीय-प्रशिक्षणे कृषकेभ्यः अजापालनस्य सम्पूर्णस्य व्यावसायिक-प्रक्रियायाः सूचना प्रदास्यते। अस्मिन् अजापशूनाम् उचित-आवासः, सन्तुलित-पोषणम्, स्वास्थ्य-प्रबन्धनम्, प्रजननम्, नस्ल-चयनम् तथा स्थापना इत्यादयः महत्त्वपूर्णाः विषयाः सम्मिलिताः सन्ति। कृषकेभ्यः इदमपि सूचयिष्यते यत् अजापालनस्य समये कानि सावधानतानि अनुसृत्य व्ययं न्यूनीकर्तुं आयं च वर्धयितुं शक्यते।
कार्यक्रमे केन्द्रस्य डॉ. खलील-खानः, डॉ. दीपक-मिश्रः तथा डॉ. निमिषा-अवस्थी च कृषकान् सम्बोधितवन्तः।
Hindusthan Samachar / Divya Ranjan