इंडिपेंडेंसचषकः-2026 : बैडमिंटनक्रीडायाः रोमांचेन सह एकलव्य स्पोर्ट्स एरिनामध्ये समाचरिष्यते स्वांतन्त्र्यस्य उत्सवः
कोरबा, 10 अगस्तमासः (हि. स.)। भारतस्य बिहारराज्यस्य पश्चिमचम्पारणजनपदस्य वाल्मीकिनगरस्य समीपे नेपालस्य चितवनजनपदे स्थितं धार्मिकतीर्थस्थलं वाल्मीक्याश्रमं प्राप्तुम् अद्यापि सुकरं नास्ति। अयं प्रदेशः महर्षेः वाल्मीकेः तपोभूमिरिति मन्यते। रामायणे
इंडिपेंडेंस कप-2026 : बैडमिंटन के रोमांच के साथ एकलव्य स्पोर्ट्स एरिना में मनाया जाएगा आजादी का उत्सव


कोरबा, 10 अगस्तमासः (हि. स.)।

भारतस्य बिहारराज्यस्य पश्चिमचम्पारणजनपदस्य वाल्मीकिनगरस्य समीपे नेपालस्य चितवनजनपदे स्थितं धार्मिकतीर्थस्थलं वाल्मीक्याश्रमं प्राप्तुम् अद्यापि सुकरं नास्ति। अयं प्रदेशः महर्षेः वाल्मीकेः तपोभूमिरिति मन्यते। रामायणे उल्लेखोऽस्ति यत् अस्मिन्नेव प्रदेशे अग्निपरीक्षायाः अनन्तरं सीता वनवासाय प्रेषिता आसीत्। अत्रैव लवकुशयोः जन्म अभवत्। तयोः पालनपोषणम् अत्रैव अभवत् तथा च तौ महर्षेः वाल्मीकेः समीपे शिक्षादीक्षां प्राप्तवन्तौ।

रामायणे वर्णितकथानुसारम् अयोध्यातः भगवान् रामेण अश्वमेधयज्ञस्य समये मोचितं हयं बाल्यावस्थायामेव लवकुशौ गृहीत्वा अस्मिन्नेव स्थाने निरुद्धवन्तौ।

सन् १९६४ तमे वर्षे उत्तरप्रदेशस्य तत्कालीनराजधानी इलाहाबादे, अधुना प्रयागराजे, आयोजितायां धर्मसंसदि निर्णयः कृतः आसीत् यत् यस्मिन् स्थले वाल्मीकिना रामायणस्य रचना कृता तथा सीतायाः परित्यागानन्तरं लवकुशयोः जन्म अभवत्, तत् तमसानद्याः तीरे स्थितं वाल्मीक्याश्रमस्थलं नेपालदेशे एव अस्ति। भारतसर्वकारेण गण्डकबैराजस्य विस्तृतपरियोजनाप्रतिवेदनेऽपि संशोधनं कृत्वा वाल्मीक्याश्रमं नेपालस्य सीमायाः अन्तर्गतम् इति दर्शितम् आसीत्।

भगवता रामेण सह सम्बद्धत्वात् हिन्दुधर्मावलम्बिनः वाल्मीक्याश्रमं महत्त्वपूर्णं तीर्थस्थलम् इति मन्यन्ते। अत्र रामस्य, सीतायाः, वाल्मीकेः, लवकुशयोः तथा हरिहरस्य मूर्तियुक्तानि मन्दिराणि निर्मितानि सन्ति। मुख्ये मन्दिरे प्रतिष्ठापिता हरिहरस्य अष्टधातुनिर्मिता मूर्तिः विशेषमहत्त्वं धारयति।

मन्दिरस्य पुरोहितस्य रामशरणगिरेः अनुसारं राजा महेन्द्रेण विक्रमसंवत् २०२२ तमे वर्षे वाल्मीक्याश्रमे उत्खननं कारयता एषा मूर्तिः प्राप्ता आसीत्। विक्रमसंवत् २०२८ तमे वर्षे तत्कालीनसर्वकारेण हरिहरस्य अस्याः एव मूर्तेः चित्रयुक्तं डाकपत्रमपि प्रकाशितम् आसीत्।

पुरोहितस्य गिरेः अनुसारं राजा महेन्द्रेण एव अत्र आकर्षकं मन्दिरं निर्मापितम्, मूर्तेः प्रतिष्ठा कारिता तथा पुरोहितस्य व्यवस्थया सह कतिपयाः परिवाराः अत्र आनीय निवासिताः। सः कथयति, “अद्यापि आश्रमपरिसरे चतुर्दश परिवाराः निवसन्ति।”

प्राचीनधार्मिकधरोहरत्वे तथा अत्र एकादशाधिकपरिवाराणां निवासेऽपि अस्मिन् आश्रमे प्राप्तुं सुकरं नास्ति।

यद्यपि वाल्मीक्याश्रमः चितवनस्य माडीक्षेत्रे अन्तर्भवति, तथापि सः पूर्वीनवलपरासीजनपदस्य त्रिवेणीस्थानात् अधिकं समीपवर्ती अस्ति। त्रिवेण्यां नारायणीं नदीं तीर्त्वा प्रायः सार्धद्विकिलोमीटरमितां दूरं गत्वा आश्रमं प्राप्तुं शक्यते।

महत्त्वपूर्णस्य धार्मिकस्थलस्य समीपे स्थितत्वेऽपि सुगममार्गस्य अभावात् अयं प्रदेशः दीर्घकालं यावत् उपेक्षितः आसीत्। अस्याः समस्यायाः समाधानं दृष्ट्वा प्रायः चतुर्षु वर्षेषु पूर्वं नारायणी नद्याः उपरि सेतुनिर्माणं कृतम् आसीत्।

नूतनवर्षस्य, माघसंक्रान्तेः आरभ्य माघामावस्याः पर्यन्तं, महाशिवरात्रेः तथा बृहत्-एकादश्याः सहितं विविधपर्वणां अवसरेषु बहुसंख्याकाः पर्यटकाः श्रद्धालवश्च वाल्मीक्याश्रमं प्राप्तुम् इच्छन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani