Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १० अगस्तमासः (हि.स.)। केन्द्रीयमन्त्री राज्यसभायां च पक्षनेता जे.पी. नड्डा राहुल-गान्धिनम् आक्रोशपूर्वकं लक्ष्यीकृत्य तं सदने चर्चायै आहूतवान्। जे.पी. नड्डा अवदत् यत् सर्वकारः सदने चर्चायै सज्जः अस्ति तथा विपक्षस्य प्रश्नानां समुचितम् उत्तरं प्रदास्यते। तेन उक्तं यत् विपक्षेन मिथ्यासूचनाः न प्रसारयितव्याः, यतः जन्तर-मन्तरे न तु काचित् गुटिका प्रहृता, न च तत्र गोलिकाप्रयोगस्य कश्चन आदेशः प्रदत्तः आसीत्।
सोमवासरे स्वनिवासे वार्ताहरैः सह सम्भाषणकाले केन्द्रीयमन्त्री जे.पी. नड्डा अवदत् यत् राहुल-गान्धी संसदि जनसमूहे च निरन्तरं स्वस्य वक्तव्यं परिवर्तयति। तस्य उद्देशः संवादं कर्तुं न, अपितु अराजकतां प्रसारयितुम् अस्ति। सत्रस्य प्रारम्भे तेन नीट्-विषये चर्चायाः आग्रहः कृतः। यदा वयं तस्मिन् विषये चर्चायै सज्जाः अभवाम, तदा तेन राममन्दिर-न्यासस्य विषयः उत्थापितः। ततः सः जन्तर-मन्तरे घटितां घटनाम् आधृत्य गृहमन्त्रिणः वक्तव्यस्य आग्रहं कृतवान्। तस्य उद्देश्यं सदनस्य कार्यवाहीं न चलितुं दानम् एव अस्ति। अतः गतपञ्चदशदिनतः सः सदनस्य कार्यवाहीं बाधितवान् तथा च जन्तर-मन्तरस्य विषये चर्चायाः आग्रहं निरन्तरं कुर्वन् अस्ति।
तेन उक्तं यत् अद्य यदा जन्तर-मन्तरस्य विषये चर्चायाः निर्णयः कृतः, तदा तेन जनान् देशं च भ्रमयितुं प्रारब्धम्। तेन उक्तं यत् जन्तर-मन्तरे गुटिकाः प्रहृताः, यद्यपि वस्तुतः तादृशी काचित् घटना अभवत् एव न। गृहमन्त्री प्रत्येकस्य प्रश्नस्य उत्तरं दातुं सज्जः अस्ति। अस्माकं सदैव स्पष्टं मतम् अस्ति—सदनस्य कार्यवाहीं निर्विघ्नं प्रचलितुं दीयताम्। यदि सदनस्य कार्यवाही प्रचलति, तर्हि वयं प्रत्येकं विषये उत्तरं दातुं सज्जाः स्मः, यथा पूर्वमपि सदैव कुर्मः। अस्माकं पूर्ववृत्तान्तः अस्य प्रमाणम् अस्ति। नड्डा अवदत् यत् सदनस्य अन्तः प्रत्येकं विषये चर्चायै वयं सज्जाः स्मः।
तेन विपक्षं प्रति प्रश्नः कृतः यत् किं अद्य झारखण्डस्य छात्राणां स्वरः तेषां श्रवणगोचरो न भवति? तत्र प्रदर्शनं कुर्वतां छात्राणां समीपे कण्टकित-तारकाणि स्थापितानि सन्ति। ते तत्रत्य-सर्वकारस्य भागाः सन्ति तथा प्रभावीरूपेण सर्वकारं चालयन्ति। किं ते तत्रत्यछात्राणां स्वरं न शृण्वन्ति? तेन स्पष्टतया उक्तं यत् राहुल-गान्धिना काङ्ग्रेस-दलेन च स्वीकृतैः द्वैधमापदण्डैः, अराजकतायाः प्रसारेण, नकारात्मक-राजनीतेः आचरणेन, उत्तर-दायित्वहीन-विपक्षस्य भूमिकायाः निर्वहणेन च देशस्य भविष्यस्य विकासस्य च किमपि हितं न भवति।
हिन्दुस्थान समाचार / Divya Ranjan