Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 10 अगस्तमासः (हि.स.)।
विवाहात् पूर्वं युवानः भावीपतिपत्नी च परस्परं सम्यक् अवगन्तुं सुदृढसम्बन्धान् च निर्मातुं शक्नुयुः इत्येतदर्थं राष्ट्रियमहिलाआयोगेन कर्नाटकराज्यसर्वकारेण सह एकः सहमतिसन्धिः कृतः अस्ति।
अस्य सहमतिसन्धेः अन्तर्गतं कर्नाटकराज्ये १७५ विवाहपूर्वसंवादकेन्द्राणि प्रारभ्यन्ते। एतानि केन्द्राणि ‘तेरे मेरे सपने’ इति नाम्ना सञ्चालितस्य उपक्रमस्य अन्तर्गतं कार्यं करिष्यन्ति। कर्नाटकराज्ये अस्य कार्यक्रमस्य नाम ‘तेरे मेरे सपने – कूडी बालोना’ इति निर्धारितम् अस्ति।
एतेषु केन्द्रेषु विवाहात् पूर्वं युवकेभ्यः भाविदम्पतिभ्यश्च अनेकानां महत्त्वपूर्णविषयाणां विषये संसूचना प्रदास्यते। अस्य मुख्योद्देश्यं विवाहानन्तरं सम्भाव्यमानानां विविधसमस्यानां भ्रान्तीनां च पूर्वमेव न्यूनीकरणम् अस्ति, येन पतिपत्न्योः मध्ये विश्वासः, परस्परावबोधः सम्मानश्च स्थिरः भवेत्।
बेङ्गलूरुनगरे अस्य सहमतिसन्धेः हस्ताक्षरसमये राष्ट्रियमहिलाआयोगस्य अध्यक्षा विजया रहाटकरः तथा कर्नाटकस्य मुख्यसचिवा डॉ. शालिनी राजनीशः उपस्थिते आस्ताम्। तदतिरिक्तं महिलाबालविकासविभागस्य, राष्ट्रियमहिलाआयोगस्य तथा कर्नाटकराज्यमहिलाआयोगस्य वरिष्ठाधिकारिणः अपि उपस्थिताः आसन्।
१७५ नूतनकेन्द्राणां कृते १७५ परामर्शदातॄणां प्रशिक्षणमपि आयोजितम्। एते परामर्शदातारः युवकेभ्यः भाविदम्पतिभ्यश्च सम्यक् मार्गदर्शनं प्रदातुं प्रशिक्षिताः।
आयोगः एतेषां केन्द्राणां कृते प्रशिक्षणसामग्रीं प्रदास्यति, प्रशिक्षकप्रशिक्षणकार्यक्रमं च आयोजयिष्यति तथा कार्यस्य निरीक्षणं करिष्यति। कर्नाटकस्य महिलाबालविकासविभागः एतानि केन्द्राणि सञ्चालयिष्यति तथा जनानां कृते निःशुल्कं परामर्शनं प्रदास्यते। कर्नाटकराज्यमहिलाआयोगः जनानां मध्ये अस्य कार्यक्रमस्य संसूचनां प्रसारयितुं तथा कार्यस्य समीक्षायां साहाय्यं करिष्यति।
विजया रहाटकरः अवदत् यत् सुदृढाः परिवाराः उत्तमसंवादेन, विश्वासेन तथा परस्परस्य सम्यगवबोधेन निर्मीयन्ते। सा अवदत् यत् विवाहात् पूर्वं समुचितं परामर्शनं मार्गदर्शनं च प्राप्त्वा युवानः अधिकान् सुदृढान् च सम्बन्धान् निर्मातुं शक्नुवन्ति।
कर्नाटकराज्ये १७५ केन्द्राणां प्रारम्भानन्तरं राष्ट्रियमहिलाआयोगः अधुना षोडशसु राज्येषु केन्द्रशासितप्रदेशेषु च २८३ तः अधिकानां पीएमसीसीकेन्द्राणां मार्गदर्शनं करिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani