Enter your Email Address to subscribe to our newsletters

मेदिनीपुरम्, १० अगस्तमासः (हि.स.)। पश्चिम-मेदिनीपुर-जनपदस्य केशपुरे माक्सवादीकम्युनिष्टपक्षस्य शहीद-स्मरणसभां प्रति भाजपामाक्स-वादीकम्युनिष्टपक्षयोः मध्ये राजनैतिकः आरोप-प्रत्यारोपः तीव्रः अभवत्। माक्सवादीकम्युनिष्टपक्षेण आरोपितं यत् शहीदस्मरणसभायां जनसमूहस्य समागमं निवारयितुं भाजपापक्षतः ग्रामे ग्रामे मोटरसाइकिल-पदयात्राः आयोज्यन्ते। भाजपापक्षेण एते आरोपाः निराकृताः तथा उक्तं यत् एतत् स्वातन्त्र्यदिवसात् पूर्वं प्रचलितस्य कार्यक्रमस्य एकः भागः अस्ति।
माक्सवादीकम्युनिष्टपक्षस्य अनुसारं दलस्य दिवङ्गतनेतुः जमशेद-अली-महोदयस्य पुण्यतिथौ प्रतिवर्षं अगस्त-मासस्य १० दिनाङ्के शहीदस्मरणसभा आयोज्यते। अस्मिन् वर्षेऽपि केशपुरस्य जमशेद-अली-स्मृतिभवने कार्यक्रमस्य आयोजनं कृतम् अस्ति। अपरतः भाजपापक्षेण अस्मिन्नेव दिने केशपुरबाजारे रक्तदानशिबिरस्य आयोजनं कृतम्। उभयोः दलयोः कार्यक्रमाभ्यां क्षेत्रे राजनैतिकचर्चा वर्धिता अस्ति।
केशपुरस्य माक्सवादीकम्युनिष्टपक्षस्य नेता शुभाशीषपाइनः आरोपितवान् यत् विधानसभानिर्वाचनकालेऽपि क्षेत्रे भयस्य वातावरणम् आसीत्। तेन उक्तं यत् २०११ तमवर्षस्य अनन्तरं तृणमूलकाङ्ग्रेसपक्षं गतवन्तः बहवः पुरातनसमर्थकाः अधुना पुनः माक्सवादीकम्युनिष्टपक्षे प्रत्या-गच्छन्ति। तस्य अनुसारम् अगस्तमासस्य अष्टमे दिनाङ्के जमशेद-अली-स्मृतिभवने आयोजिते रक्तदान-शिबिरे १०८ जनैः रक्तदानं कृतम् आसीत्। माक्सवादीकम्युनिष्टपक्षस्य नेतुः आरोपः अस्ति यत् एतं जनसमूहं दृष्ट्वा भाजपापक्षः भयभीतः अस्ति तथा जनान् प्रभावितुं ग्रामे ग्रामे मोटरसाइकिल-यात्राः आयोजयति।
भाजपापक्षेण माक्सवादीकम्युनिष्टपक्षस्य आरोपाः पूर्णतया निराकृताः। घाटाल-साङ्गठनिक-जनपदस्य भाजपायाः उपाध्यक्षः अजयप्रधानः रविवासरे त्रिरङ्गा-यात्रायाः समये अवदत् यत् भाजपापक्षः लोकतन्त्रे विश्वासं करोति तथा प्रत्येकं राजनैतिकदलस्य सभां शोभायात्रां च कर्तुं अधिकारः अस्ति। तेन सर्वेभ्यः पक्षेभ्यः क्षेत्रे कस्यापि प्रकारस्य विवादं न जनयितुम् आग्रहः कृतः।
अपरतः रविवासरे रात्रौ भाजपानेता तन्मयघोषः अवदत् यत् स्वातन्त्र्यदिवसात् पूर्वं ‘हर घर तिरङ्गा’ अभियानस्य अन्तर्गतं युवमोर्चापक्षतः विभिन्नक्षेत्रेषु मोटरसाइ-किल-यात्राः आयोज्यन्ते। तेन स्पष्टं कृतं यत् एतासां यात्राणाम् उद्देश्यं कस्यापि प्रकारस्य आतङ्कं राजनैतिक-बलं वा निर्मातुं नास्ति।
उल्लेखनीयं यत् १९८३ तमस्य वर्षस्य अगस्तमासस्य १० दिनाङ्कस्य रात्रौ केशपुरस्थिते दलकार्यालये तत्कालीनस्य माक्सवादीकम्युनिष्टपक्षस्य नेता जमशेद-अली-महोदयस्य हत्या कृता आसीत्। ततः परवर्षादारभ्य माक्सवादी-कम्युनिष्टपक्षः तस्य स्मृतौ अस्मिन् दिने शहीदस्मरणसभाम् आयोजयति। अस्मिन् वर्षेऽपि कार्यक्रमं प्रति उभयोः दलयोः मध्ये वक्तव्यप्रतिवक्तव्ययोः क्रमः तीव्रः अभवत्।
Hindusthan Samachar / Divya Ranjan