मन्त्रिणा टङ्कराम-वर्मणा सारङ्गढे १.२४ कोटिरूप्यकाधिक-मूल्यस्य विकासकार्याणां लोकार्पणम्
रायपुरम्, १० अगस्तमासः (हि.स.)। राजस्व-विभागस्य उच्चशिक्षा-विभागस्य च मन्त्री टङ्कराम-वर्मा सारङ्गढ-प्रवासस्य अवधौ जनपदाय स्वास्थ्यस्य, उच्चशिक्षायाः, पशुचिकित्सायाः च क्षेत्रेषु अनेकानि महत्त्वपूर्णानि विकासकार्याणि समर्पितवान्। तेन प्रायः १.२४ क
मंत्री टंकराम वर्मा  निर्माण कार्यों का लोकार्पण करते


रायपुरम्, १० अगस्तमासः (हि.स.)। राजस्व-विभागस्य उच्चशिक्षा-विभागस्य च मन्त्री टङ्कराम-वर्मा सारङ्गढ-प्रवासस्य अवधौ जनपदाय स्वास्थ्यस्य, उच्चशिक्षायाः, पशुचिकित्सायाः च क्षेत्रेषु अनेकानि महत्त्वपूर्णानि विकासकार्याणि समर्पितवान्।

तेन प्रायः १.२४ कोटिरूप्यकाधिकव्ययेन निर्मितानां विभिन्न-विभागीय-भवनानां लोकार्पणं कृतम्। एतेन जनपदमुख्यालये आधारभूतसुविधानां संरचनायाश्च सुदृढी-करणं जातम्।

मन्त्री टङ्कराम-वर्मणा सोमवासरे प्रमुख-निर्माणकार्याणां लोकार्पणं कृतम्। तेषु पशुचिकित्सा-विभागस्य ७४ लक्षं ५९ सहस्ररूप्यकैः निर्मितं जनपद-कार्यालय-भवनम्, स्वास्थ्य-विभागस्य ५० लक्षरूप्यकैः निर्मितः सीजीएमएससी-संस्थायाः अतिरिक्त-कक्षः, बीपीएचयू-भवनम्, जनपद-चिकित्सालयस्य औषधि-विभागः, शासकीय-लोचनप्रसाद-पाण्डेय-स्नातकोत्तर-महाविद्यालये जनसह-भागिता-निधिना निर्मितः अतिरिक्त-कक्षश्च सम्मिलिताः सन्ति।

मन्त्रिणा श्रीवर्मणा लोकार्पण-समारोहस्य साथं क्षेत्रे क्रीडा-पर्यावरण-संरक्षणयोः सम्बद्धासु गतिविधिष्वपि भागः गृहीतः। तेन ऑफिसर्स-क्लब इत्यस्य उद्घाटनमपि कृतम्।

परिसरे वृक्षान् आरोपयित्वा मन्त्री वर्मा छुहीपाली-ग्रामे आयोजिते बृहद्-पर्यावरण-कार्यक्रमे भागं गृहीतवान्। तत्र तेन ‘सीड-बॉल’-माध्यमेन वृक्षारोपणं कृतम्। तेन जनपद-कार्यालयस्य संयुक्त-भवनस्य निरीक्षणं कृत्वा व्यवस्थायाः जायमानस्थितेः अवलोकनं कृतम्। ततः मण्डी-प्राङ्गणे स्वामित्व-योजनायाः अन्तर्गतं कृषक-हितग्राहिभ्यः अधिकार-अभिलेखानां वितरणं कृतम्।

अस्मिन् अवसरे विधायक उत्तरी-जांगडे, जनपद-पञ्चायत-अध्यक्षः सञ्जय-भूषण-पाण्डेयः, उपाध्यक्षः अजय-नायकः, सदस्याः, पूर्व-विधायकः केराभाई-मन्हरः इत्येतै: सह वरिष्ठाः अधिकारिणः जनप्रतिनिधयश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan