राष्ट्रं प्रति स्वीय कर्तव्यानि सदैव स्मरणीयानि : आकाश पालः
मुरादाबादम्, 10 अगस्तमासः (हि.स.)। भारतीयजनतापार्टीमुरादाबादजनपदस्य पाकबडा मण्डलेन “सर्वेषु गृहेषु त्रिवर्णध्वजः, सर्वेषु हृदयेषु त्रिवर्णध्वजः” इत्यभियानस्य अन्तर्गतं सोमवासरे सायंकाले त्रिवर्णध्वजयात्रायाः आयोजनं कृतम्। अस्यां यात्रायां मुख्यात
मुरादाबाद में निकलती तिरंगा यात्रा में शामिल भाजपा पदाधिकारी।


मुरादाबादम्, 10 अगस्तमासः (हि.स.)।

भारतीयजनतापार्टीमुरादाबादजनपदस्य पाकबडा मण्डलेन “सर्वेषु गृहेषु त्रिवर्णध्वजः, सर्वेषु हृदयेषु त्रिवर्णध्वजः” इत्यभियानस्य अन्तर्गतं सोमवासरे सायंकाले त्रिवर्णध्वजयात्रायाः आयोजनं कृतम्। अस्यां यात्रायां मुख्यातिथिरूपेण भारतीयजनतापार्टीजनपदाध्यक्षः आकाशकुमारपालः स्वतन्त्रतासेनानीनां बलिदानं राष्ट्रं प्रति स्वकर्तव्यं च सदैव स्मर्तुम् आह्वानं कृतवान्।

त्रिवर्णध्वजयात्रायाः शुभारम्भः पाकबडास्थितात् बडामन्दिरात् अभवत्। यात्रा विभिन्नमार्गान् अतिक्रम्य पाकबडास्थितं चामुण्डाशिशुमन्दिरं प्राप्य सम्पन्ना अभवत्। यात्रायाः समये “भारत माता की जय”, “वन्दे मातरम्” इत्यादीनां राष्ट्रभक्तिपरकाणां घोषाणां कारणेन सम्पूर्णं वातावरणं राष्ट्रभक्तिभावेन परिपूर्णम् अभवत्। हस्तेषु त्रिवर्णध्वजान् धृत्वा हृदयेषु राष्ट्रभक्तेः भावं धारयन्तः बहुसंख्याकाः भारतीयजनतापार्टीकार्यकर्तारः स्थानीयजनाश्च यात्रायां महोत्साहेन भागं गृहीतवन्तः।

कार्यक्रमस्य विषये सूचनां ददन् भारतीयजनतापार्टीजनपदस्य माध्यमप्रभारी सञ्जयढाकः उक्तवान् यत् त्रिवर्णध्वजः केवलं ध्वजः न, अपितु देशस्य मानस्य गौरवस्य च प्रतीकः अस्ति। “सर्वेषु गृहेषु त्रिवर्णध्वजः, सर्वेषु हृदयेषु त्रिवर्णध्वजः” इत्यभियानं देशवासिषु राष्ट्रप्रेम, ऐक्यं राष्ट्रियगौरवं च दृढतरं कर्तुं महत्त्वपूर्णं माध्यमम् अस्ति।

त्रिवर्णध्वजयात्रायां पूर्वजनपदाध्यक्षः ठाकुरराकेशसिंहः, सहकारीबैंकस्य अध्यक्षः चौधरीविजयभानसिंहः, चौधरीहुकुमसिंहः, कार्यक्रमस्य संयोजकः चकितचौधरी, जनपदमाध्यमप्रभारी सञ्जयढाकः, जनपदोपाध्यक्षः मयूरभाटिया, किसानमोर्चाजनपदाध्यक्षः सत्येन्द्रचौधरी, श्यामरुहेला, सुमितदिवाकरः, विकासशर्मा, मण्डलाध्यक्षः दीपकचौधरी, प्रज्ञातचौधरी, युवामोर्चाजनपदमहामन्त्री अर्पितचौहानः इत्यादयः कार्यकर्तारः उपस्थिताः आसन्।

-------------------

Hindusthan Samachar / Dheeraj Maithani