नवदिल्लीस्थिते मध्यप्रदेशभवने अद्य शाटिका-वस्त्रधारणस्य हस्तकरघा-प्रदर्शनस्य च प्रतियोगिता आयोजिता
भोपालः, १० अगस्तमासः (हि.स.)। नवदिल्ली स्थिते मध्यप्रदेशभवने भारतीय-हस्तकरघावस्त्राणां शाटिका-वस्त्रस्य च पारम्परिकं धरोहरं प्रोत्साहयितुं सोमवासरे अद्य “शाटिका-वस्त्रधारणस्य हस्तकरघा-प्रदर्शनस्य च प्रतियोगिता” आयोज्यते। इयं प्रतियोगिता सायं चतुर्व
मध्य प्रदेश भवन नई दिल्ली


भोपालः, १० अगस्तमासः (हि.स.)। नवदिल्ली स्थिते मध्यप्रदेशभवने भारतीय-हस्तकरघावस्त्राणां शाटिका-वस्त्रस्य च पारम्परिकं धरोहरं प्रोत्साहयितुं सोमवासरे अद्य “शाटिका-वस्त्रधारणस्य हस्तकरघा-प्रदर्शनस्य च प्रतियोगिता” आयोज्यते। इयं प्रतियोगिता सायं चतुर्वादने मध्यप्रदेशभवनस्य प्रेक्षागृहे भविष्यति।

जनसम्पर्काधिकारिणी बिन्दु-सुनीलः सूचनां दत्त्वा अवदत् यत् प्रतियोगितायां प्रतिभागिभ्यः शाटिका-वस्त्रस्य विभिन्नानां पारम्परिकानां सृजना-त्मकानां च वस्त्रधारणशैलीनां प्रदर्शनस्य अवसरः प्राप्स्यति। प्रतिभागिनः अधिकतमं द्वयोः जनयोः दलरूपेण प्रतियोगितायां भागं ग्रहीतुं शक्नुवन्ति। प्रतियोगितायां प्रतिभागिभिः आयोजनस्थले त्रिंशत् निमेषेषु शाटिका-वस्त्रधारणं पूर्णं कर्तव्यम्। ततः प्रतिभागिनः रैम्प्-वॉक्-माध्यमेन स्वप्रस्तुतिं प्रदास्यन्ति तथा च तैः स्वीकृतायाः शाटिका-वस्त्रधारणशैल्याः तस्याः विशेषतानां च विषये सूचना अपि प्रदास्यते। प्रतियोगितायां अष्टादश-वर्षाधिकवयस्काः प्रतिभागिनः भागं ग्रहीतुं शक्नुवन्ति।

सा अवदत् यत् आयोजनस्य उद्देश्यं भारतीय-वस्त्रपरम्परायाः, पारम्परिक-शाटिका-वस्त्रधारणस्य विविधशैलीनां तथा हस्तकरघावस्त्राणां प्रति जागरूकतां आकर्षणं च वर्धयितुम् अस्ति। प्रतियोगितायाः माध्यमेन देशस्य समृद्धां वस्त्र-हस्तकरघा-परम्परां आधुनिक-प्रस्तुत्या सह जनानां समक्षं प्रस्तोतुं प्रयासः क्रियते।

Hindusthan Samachar / Divya Ranjan