Enter your Email Address to subscribe to our newsletters

– नगरभ्रमणं कृत्वा अवन्तिकानाथः स्वप्रजायाः कुशलं ज्ञास्यति
उज्जयिनी, १० अगस्तमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे ज्योतिर्लिङ्गे भगवत: महाकालेश्वरस्य मन्दिरे श्रावणमासे भक्तानां महती सङ्ख्या समुपागच्छति। अद्य श्रावणमासस्य द्वितीये सोमवासरे प्रातः भस्मारार्तिक्यां बाबा-महाकालस्य राजस्वरूपेण दिव्यः शृङ्गारः कृतः। अस्मिन् अवसरे सहस्रशः भक्ताः दिव्यदर्शनस्य लाभं प्राप्तवन्तः। अपरतः सायंकाले बाबा-महाकालस्य श्रावणमासस्य द्वितीया सवारी इति निष्क्रमिष्यति, यस्मिन् अवन्तिकानाथः नगरभ्रमणं कृत्वा स्वप्रजायाः कुशलं ज्ञास्यति।
अद्य देशस्य विभिन्नेभ्यः भागेभ्यः बहुसङ्ख्यकाः श्रद्धालवः उज्जयिनीम् आगतवन्तः। भगवत: महाकालेश्वरस्य दर्शनार्थं भक्तानां दीर्घाः पङ्क्तयः दृश्यन्ते। भस्मारार्तिक्यर्थं मन्दिरस्य कपाटानि प्रातः २:३० वादने उद्घाटितानि। ततः दर्शनस्य क्रमः रात्रौ १० वादने सम्पद्यमानपर्यन्तं शयनारार्तिक्या: समयं यावत् चलिष्यति।
महाकालेश्वरमन्दिरस्य पुरोहितः महेशगुरुः अवदत् यत् श्रावणमासस्य द्वितीये सोमवासरे मन्दिरस्य कपाटानि प्रातः २:३० वादने उद्घाटितानि। परम्परानुसारं सर्वप्रथमं वीरबालभद्रस्य पूजनं कृतम्। ततः भगवत महाकालस्य, भगवत: गणेशस्य, भगवान् कार्तिकेयस्य नन्दिनश्च विधिविधानपूर्वकं अभिषेकः पूजनञ्च सम्पन्नम्। अनन्तरं कर्पूरार्तिकी कृता। ततः श्रद्धालूनां दर्शनार्थं प्रवेशः प्रदत्तः।
वैदिकमन्त्राणां घोषस्य मध्ये जलेन भगवत: महाकालस्य अभिषेकं कृत्वा दुग्धेन, दध्ना, घृतेन, शर्करया, मधुना फलरसैश्च निर्मितेन पञ्चामृतेन पूजनं कृतम्। रजतचन्द्रेण, त्रिशूलेन, मुकुटेनाभरणैश्च सह भाङ्गेन, चन्दनेन शुष्कफलैश्च शृङ्गारं कृत्वा भस्म समर्पितम्। फलानि मिष्टान्नानि च नैवेद्यरूपेण समर्पितानि। “जय श्रीमहाकाल” इति जयघोषस्य मध्ये भस्मारार्तिकी सम्पन्ना। ततः भगवान् रजतमुकुटेन, आभरणैः दिव्यवस्त्रैश्च भूषितः। निराकारात् साकारस्वरूपं प्राप्तः भगवान् महाकालः भक्तेभ्यः दर्शनं दत्तवान्। अस्मिन् अवसरे सहस्रशः श्रद्धालवः चलित भस्मारार्तिक्या: माध्यमेनापि बाबा-महाकालस्य दर्शनं प्राप्तवन्तः।
परम्परानुसारं श्रावण-भाद्रमासयोः भगवत: महाकालस्य निष्क्रमन्तीनां सवारीणां क्रमे अद्य सायं चतुर्वादने श्रावणमासस्य द्वितीया सवारी निष्क्रमिष्यति। सवार्याः प्रस्थानात् पूर्वं प्रायः सार्धत्रिवादने महाकालेश्वर-मन्दिरस्य सभामण्डपे बाबा-महाकालस्य षोडशोपचारपूजनं भविष्यति। ततः भगवान् श्रीचन्द्रमौलेश्वरस्वरूपेण पालक्यां विराजमानः भक्तेभ्यः दर्शनं दातुं नगरभ्रमणाय प्रस्थास्यति। पालकी मन्दिरस्य मुख्यद्वारं यदा प्राप्स्यति, तदा सशस्त्र-आरक्षक-बलस्य सैनिकैः पालक्यां विराजमानाय भगवत: चन्द्रमौलेश्वराय नमनम् अर्थात् सम्मान-रक्षाप्रदर्शनम् प्रदास्यते।
ततः मन्दिरप्राङ्गणात् सवारी प्रस्थास्यति तथा च प्रायः सार्धैककिलोमीटरं दूरं गत्वा सायं पञ्चवादने रामघट्टं प्राप्स्यति। तत्र शिप्रानद्याः जलेन बाबा-महाकालस्य जलाभिषेकः भविष्यति। रामघाटे पूजनस्य आरार्तिक्याश्च अनन्तरं बाबा-महाकालः पुनः मन्दिरं प्रति प्रस्थास्यति। सवारी सायं सप्तवादने मन्दिरं प्राप्स्यति।
महाकालमन्दिरस्य प्रशासकः प्रथम-कौशिकः अवदत् यत् बाबा-महाकालस्य सवारी इत्यत्र जनजातीयाः सांस्कृतिक-दलानि सांस्कृतिकप्रस्तुतीः प्रदास्यन्ति।
Hindusthan Samachar / Divya Ranjan