जबलपुरे अद्य संस्कार-कांवडयात्रा निष्क्रमिष्यति, नर्मदाजलेन पादपेन च सह लक्षशः श्रद्धालवः कैलाशधामं प्राप्स्यन्ति
– कांवडयात्रायां मुख्यमन्त्री डॉ. यादवः अपि सम्मिलिष्यति जबलपुरम्, १० अगस्तमासः (हि.स.)। मध्यप्रदेशस्य संस्कारधान्यां जबलपुरनगरे अद्य श्रावणमासस्य द्वितीये सोमवासरे निष्क्रमन्त्यां प्रसिद्धायां संस्कार-कांवडयात्रायां बहुसङ्ख्यकाः शिवभक्ताः भगवत्या
कैलाश धाम मंदिर


– कांवडयात्रायां मुख्यमन्त्री डॉ. यादवः अपि सम्मिलिष्यति

जबलपुरम्, १० अगस्तमासः (हि.स.)। मध्यप्रदेशस्य संस्कारधान्यां जबलपुरनगरे अद्य श्रावणमासस्य द्वितीये सोमवासरे निष्क्रमन्त्यां प्रसिद्धायां संस्कार-कांवडयात्रायां बहुसङ्ख्यकाः शिवभक्ताः भगवत्याः नर्मदायाः पवित्रं जलं नीत्वा कैलाशधामं प्राप्स्यन्ति। यात्रायां मुख्यमन्त्री डॉ. मोहनयादवः अपि सम्मिलिष्यति।

निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री डॉ. यादवः प्रातः १०:४५ वादने भोपालतः वायुयानेन डुमना-विमानपत्तनं जबलपुरम् आगमिष्यति तथा च अत्र स्थानीयकार्यक्रमे संस्कार-कांवडयात्रायाम् सम्मिलिष्यति। ततः मुख्यमन्त्री मध्याह्ने १२:३० वादने डुमना-विमानपत्तनात् वायुयानेन भोपालं प्रति प्रस्थास्यति।

जनपदप्रशासनेन सूचितं यत् संस्कार-कांवडयात्रा नर्मदानद्याः ग्वारीघाटात् प्रारभ्य पनागर-तहसीलक्षेत्रस्य मटामरग्रामस्य पर्वते स्थितं कैलाशधाममन्दिरं यावत् गमिष्यति। यात्रायाः आहत्यदूरता प्रायः त्रिंशत् किलोमीटर् अस्ति। कैलाशधाममन्दिरं मुख्यनगरात् प्रायः पञ्चविंशतिः किलोमीटर् दूरे स्थितम् अस्ति। सुन्दरपर्वते निर्मिते अस्मिन् मन्दिरे प्राचीनं पवित्रं श्वेतवर्णीयं शिवलिङ्गं विराजते। श्रावणमासे अयं प्रदेशः हरितिम्ना प्राकृतिकसौन्दर्येण च परिवृतः भवति।

संस्कार-कांवडयात्रायां एकलक्षाधिकाः श्रद्धालवः सम्मिलन्ति। यात्रायाः विशेषता कांवडे एकस्मिन् पार्श्वे नर्मदाजलं, अपरस्मिन् पार्श्वे च एकं पादपं नीत्वा गमनस्य अनूठा परम्परा अस्ति। श्रद्धालवः भगवद्वस्त्राणि धृत्वा अनेककिलोमीटरपर्यन्तं पद्भ्यां यात्रां कुर्वन्ति।

यात्रा ग्वारीघाटात् प्रारभते, यत्र श्रद्धालवः नर्मदाजलं पूरयन्ति। ततः यात्रा रामपुरम्, गोरखपुरम्, शास्त्रीसेतुम्, मालवीयचौकम्, लॉर्डगञ्जम्, बडाफुहारम्, सराफाचौकम्, खटीकमोहल्लम्, बेलबागम्, घमापुर-चतुष्पथम्, कांचघरं राँझीं च अतिक्रम्य कैलाशधामं प्राप्नोति। स्थानीय-व्यवस्थानुसारं यात्रामार्गे परिवर्तनमपि भवितुं शक्नोति।

यात्रायाः समये सामाजिकसङ्गठनैः कांवडधारिणां कृते भोजनस्य, फलाहारस्य, पेयजलस्य चिकित्साशिबिराणां च व्यवस्था क्रियते। “बम-बम भोले” तथा “हर-हर महादेव” इति जयघोषैः सम्पूर्णः यात्रामार्गः भक्तिमयः भवति। कैलाशधामं प्राप्य श्रद्धालवः भगवतः शिवस्य नर्मदायाः पवित्रजलेन अभिषेकं कुर्वन्ति। श्रावणमासे कैलाशधामे कांवडयात्रया सह बहु-सङ्ख्यकाः भक्ताः आगच्छन्ति।

उल्लेखनीयं यत् तत्कालीनसन्तानां मार्गदर्शनेन कैलाशधामस्य निर्माणं १९८४ तमे वर्षे जनसहयोगेन अभवत् तथा च २०११ तमात् वर्षात् कांवडयात्रा प्रारब्धा, या संस्कार-कांवडयात्रा इति नाम्ना ज्ञायते।

/ अंशु गुप्ता