Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १० अगस्तमासः (हि.स.)। केन्द्रीय-वस्त्र-मन्त्रालयस्य सचिवा नीलम-शमी-रावः सोमवासरे अवदत् यत् सर्वकारस्य लक्ष्यं कुविन्दानाम् आयं प्रतिवर्षं दश-लक्षरूप्यकाणि यावत् नेतुं तथा च हस्ततन्त्रोद्योगं पारम्परिकसीमाभ्यः बहिः नीत्वा आधुनिक-विपणिनः आवश्यकतानुसारं रूपान्तरणं कर्तुम् अस्ति।
सचिवा नीलम-शमी-रावः अद्य देहलीस्थे अन्ताराष्ट्रिय-अम्बेडकर-भवने आयोजितस्य ‘नेशनल्-हैण्डलूम्-डिजाइनर्स्-कॉन्क्लेव्-२०२६’ इत्यस्य उद्घाटनसमारोहे एतत् उक्तवती। अस्य कार्यक्रमस्य मुख्योद्देश्यं हस्ततन्तु-क्षेत्रस्य विकासः, कुविन्दानाम् आयस्य वर्धनं तथा च नूतनवंशं परम्परया सह संयोजितुम् अस्ति।
सा अवदत्— ‘‘अस्माकं वयनकार-भ्रातरः भगिन्यश्च दीर्घकालात् एकप्रकारकाणां शाटिकानां, वर्णानां प्रतिरूपाणां च सीमायां बद्धाः सन्ति। अद्य बहुस्तरीये विपणौ एकस्मिन् पक्षे पारम्परिकं कार्यं प्रचलति, अपरस्मिन् पक्षे च एतादृशाः कुविन्दा: सन्ति ये विपणिनः आवश्यकतानुसारं स्वकीय-कौशले परिवर्तनं कुर्वन्ति। तदतिरिक्तं डिजाइनर्-निर्माणीनां सहयोगेन सञ्चाल्यमानं पृथक् प्रीमियम्-विपणम् अपि तीव्रतया विकसितं भवति।’’
सचिवा अवदत् यत् हस्ततन्तु-क्षेत्रस्य सर्वाधिकं महत्त्वपूर्णा समस्या वयनकाराणां सीमिता आयः अस्ति। सम्प्रति सर्वकारीय-योजनाभिः, अपक्व-वस्तुन: उपलब्धतया विपणन-प्रचारस्य च माध्यमेन वयनकाराः प्रतिवर्षं केवलं एक-त्रिलक्षरूप्यकाणि यावत् अर्जयितुं शक्नुवन्ति, या आयः केवलं तेषां जीविकां निर्वाहयितुं पर्याप्ता अस्ति। अस्याम् आयं दश-लक्षरूप्यकाणि प्रतिवर्षं यावत् नेतुं गणितीयं व्यावहारिकं च दृष्टिकोणं प्रस्तूय सा अवदत् यत् यदि दश-लक्षरूप्यकाणाम् आयस्य लक्ष्यं प्राप्तव्यम् अस्ति, तर्हि उत्पादनस्य मूल्यं विंशति-त्रिंशत्-लक्षरूप्यकाणां भवितुम् अर्हति। एतत् केवलं श्रेष्ठ-रचनया, गुणवत्तया वैश्विक-विपण्यं प्रति च प्राप्तुं शक्यते।
शमी-रावेण वयनकाराणां सशक्तीकरणाय वयनकार-सेवा-केन्द्रस्य, निफ्ट्, विश्वभारती, आईआईएचटी तथा अन्येषां कला-संस्थानानां डिजाइनर्-जनान् मिलित्वा कार्यं कर्तुम् आह्वानं कृतम्। सा अवदत् यत् हस्ततन्त्रोद्योगस्य आधुनिकीकरणाय आईआईटी-सहयोगेन एकम् अनुप्रयोग-साधनं विकसितं क्रियते। एतत् साधनं वयनं प्रारम्भं कृत्वा पूर्वमेव एतत् दर्शयितुं शक्नोति यत् सिद्धं प्रतिरूपं युक्तं परिधानं धारयिते सति कथं दृश्यते। वयनस्य सह मूलभूत-सिवन-कशीदाकारी-सज्जां च आन्तरिकरूपेण समावेश्य ‘रेडी-टू-वेयर’ इति संकल्पनायाः प्रोत्साहनं कर्तुं बलं दत्तम्।
सा अवदत् यत् उत्पादानां अन्तरराष्ट्रीय-स्तरस्य विशिष्ट-विपण्यस्य च यावत् प्रापणं कर्तुं सामाजिक-माध्यम-विपणनस्य प्रभावी उपयोगः, नूतन-आरम्भ-उद्यमानां युवा-उद्यमिनां च क्लस्टर-समूहेषु संयोजनं तथा वयनकार-सेवा-केन्द्राणां हस्ततन्तु-केन्द्राणां च ‘एटेलियर’ इति रूपेण विकासः आवश्यकः अस्ति।
अस्मिन् अवसरे अनेकानि सत्राणि आयोजितानि। तदतिरिक्तं ‘नेशनल्-हैण्डलूम्-डिजाइन-कॉन्टेस्ट्-२०२६’ इत्यस्य विजेतृभ्यः पुरस्काराः अपि प्रदत्ताः, येन हस्ततन्तु-क्षेत्रे अभिनव-रचनायाः सृजनात्मक-योगदानस्य च प्रशंसां कर्तुं शक्यते।
अस्मिन् अवसरे हस्ततन्तु-हस्तशिल्पयोः विकासायुक्ता डॉ. एम. बीना तथा उपमहानिदेशकः अखिलेश-कुमारः, वस्त्र-क्षेत्रसम्बद्धाः अधिकारिणः, डिजाइनर-जनाः तथा राष्ट्रीय-पुरस्कार-विजेतारः कुविन्दा: उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan