एनवायपीएस् २.०-माध्यमेन १.०३ लक्षाधिकाः छात्राः नागरिकाश्च युवा-संसद्-कार्यक्रमैः सह सम्बद्धाः
नवदिल्ली, १० अगस्तमासः (हि.स.)। संसदीय-कार्य-मन्त्रालयस्य उन्नत-राष्ट्रीय-युवा-संसद्-योजनायाः वेब-पटलं ‘एनवायपीएस् २.०’ इत्यस्य माध्यमेन २१ जुलाई २०२६ पर्यन्तं देशस्य सर्वत्र १,०३,७९१ छात्राः नागरिकाश्च युवा-संसद्-कार्यक्रमेषु सहभागितां कृतवन्तः।

संसदीय-कार्य-राज्यमन्त्री डॉ. एल. मुरुगन् सोमवासरे राज्यसभायां लिखितोत्तरे अवदत् यत् मन्त्रालयेन ११ सितम्बरमासे २०२४ तमे वर्षे एनवायपीएस् २.० इति पटलं प्रारब्धम्। पूर्वतन-पटले केवलं मान्यताप्राप्तानां संस्थानां छात्रेभ्यः सहभागितायाः सुविधा आसीत्, किन्तु नूतनं पटलं देशस्य सर्वेषां शैक्षणिक-संस्थानां, समूहानां नागरिकानां च कृते उद्घाटितम् अस्ति।

११ सितम्बर् २०२४ तः २१ जुलाई २०२६ पर्यन्तं संस्थागत-श्रेण्यां ४,९३९ पञ्जीकरणानि अभवन् तथा १,६११ युवा-संसद्-कार्यक्रमाः आयोजिताः, येषु ५४,५१८ छात्राः सहभागितां कृतवन्तः। समूह-श्रेण्यां ७३२ पञ्जीकरणानि अभवन् तथा २६ कार्यक्रमाः आयोजिताः, येषु ९८२ नागरिकाः छात्राश्च सहभागितां कृतवन्तः। व्यक्तिगत-श्रेण्यां ४८,२९१ नागरिकाः छात्राश्च सहभागितां कृतवन्तः।

डॉ. मुरुगन् अवदत् यत् युवा-संसद्-योजनायाः प्रापणं वर्धयितुं मन्त्रालयेन सर्वेषां राज्य-सर्वकाराणां, केन्द्रशासितप्रदेशानां प्रशासनानां, राज्येषु केन्द्रशासितप्रदेशेषु च विधानसभानां तथा विभिन्नानां शैक्षणिक-मण्डलानां कृते पत्राणि प्रेषितानि सन्ति। एतेषु केन्द्रीय-माध्यमिक-शिक्षा-मण्डलम्, भारतीय-विद्यालय-प्रमाणपत्र-परीक्षा-परिषद् च सम्मिलिते स्तः। योजनायाः विषये प्रचारात्मकाः विडियो-प्रशिक्षण-सामग्र्यश्च समये समये संसद्-टीवी-माध्यमेन प्रसारिताः भवन्ति।

सः अवदत् यत् मन्त्रालयस्य परामर्शदातृ-समिति-प्रबन्धन-प्रणाली पटले विभिन्न-मन्त्रालयैः सम्बद्धानां ४२ परामर्शदातृ-समितीनां विवरणम् उपलब्धम् अस्ति। हितधारकाणाम् आवश्यकतानाम् अनुरूपं सीसीएमएस-पटलं समये समये अङ्कीय-रूपेण उन्नतं कृतम् अस्ति।

Hindusthan Samachar / Divya Ranjan