Enter your Email Address to subscribe to our newsletters

कठुआ, 10 अगस्तमासः (हि.स.)।
जनपदे राष्ट्रियकृमिमुक्तिदिवसाभियानस्य सोमवासरे औपचारिकरूपेण शुभारम्भः अभवत्। कार्यक्रमस्य शुभारम्भः कठुआनगरस्य राजकीयकन्याउच्चमाध्यमिकविद्यालये अपरमण्डलायुक्तया महिमा मदानया बालकेभ्यः कृमिनाशकौषधं प्रदाय कृतः।
अस्मिन् अवसरे अपरमण्डलायुक्ता महिमा मदाना अवदत् यत् अभियानस्य उद्देशः बालकेषु किशोरेषु च नियमितरूपेण कृमिनिर्मूलनस्य, वैयक्तिकस्वच्छतायाः तथा निवारकस्वास्थ्यस्य विषये जागरूकतायाः वर्धनम् अस्ति। सा अवदत् यत् आन्त्रेषु कृमयः सन्ति चेत् बालकानां पोषणस्तरे प्रतिकूलः प्रभावः भवति, येन रक्ताल्पता, शारीरिकदौर्बल्यं तथा मानसिकविकासे बाधा उत्पद्यते।
अपरमण्डलायुक्तया अभिभावकेभ्यः आह्वानं कृतं यत् ते अभियानकाले स्वबालकेभ्यः कृमिनाशकौषधं अवश्यं दापयन्तु, येन तेषां स्वास्थ्यं समग्रविकासश्च सुनिश्चितः भवेत्।
सा अवदत् यत् अभियानस्य सफलतां सुनिश्चितं कर्तुं विशेषदलानि गठितानि सन्ति, यानि विद्यालयेषु आङ्गनवाडीकेंद्रेषु च गत्वा बालकेभ्यः औषधं वितरन्ति।
अस्मिन् अवसरे विद्यालये वन्देमातरम् इत्यस्य सामूहिकपाठः अपि आयोजितः, यस्मिन् छात्रैः शिक्षकैश्च उत्साहपूर्वकं सहभागिता कृता। कार्यक्रमस्य माध्यमेन युवकेषु राष्ट्रियैकतायाः, नागरिककर्तव्यस्य तथा देशभक्तेः मूल्यानां सुदृढीकरणमपि कृतम्।
कठुआजनपदस्य मुख्यचिकित्साधिकारी डॉ. विजय रैना इत्यनेन संसूचितं यत् अस्य अभियानस्य अन्तर्गतं एकवर्षात् एकोनविंशतिवर्षपर्यन्तम् आयुवर्गस्य प्रायः एकलक्षपञ्चाशीतिसहस्राधिकाः बालकाः समावेश्यन्ते। तेषु राजकीयतथा निजीविद्यालयानां छात्राः, आङ्गनवाडीकेंद्रेषु पञ्जीकृताः बालकाश्च अन्तर्भवन्ति।
तेन सूचितं यत् अभियानात् वञ्चितानां बालकानां समावेशाय १७ अगस्त २०२६ दिनाङ्के पुनरावृत्तिदिवसः (मॉप-अप-दिवसः) अपि निर्धारितः अस्ति।
कार्यक्रमे मुख्यशिक्षाधिकारी केवलकृष्णः, विद्यालयस्य प्राचार्यः, शिक्षकाः तथा अन्ये सम्बन्धिताः अधिकारिणश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani