नेपालस्य पूर्व प्रधानमंत्री देउवा बैंकॉकं प्राप्नोत्, 13 अगस्त को लौटेंगे स्वदेश
काठमांडूः, 10 अगस्तमासः (हि.स.)। नेपालस्य पूर्वप्रधानमन्त्री नेपालीकाङ्ग्रेसस्य च पूर्वसभापतिः शेरबहादुरदेउवः हाङ्काङ्गतः बैङ्काकनगरं प्राप्तवान्। तस्य त्रयोदशे अगस्तमासे नेपालं प्रत्यागमनस्य सम्भावना अस्ति। चिकित्सोपचारस्य प्रयोजनात् प्रायः पञ्च
नेपाल के पूर्व प्रधानमंत्री शेर बहादुर देउवा


काठमांडूः, 10 अगस्तमासः (हि.स.)।

नेपालस्य पूर्वप्रधानमन्त्री नेपालीकाङ्ग्रेसस्य च पूर्वसभापतिः शेरबहादुरदेउवः हाङ्काङ्गतः बैङ्काकनगरं प्राप्तवान्। तस्य त्रयोदशे अगस्तमासे नेपालं प्रत्यागमनस्य सम्भावना अस्ति। चिकित्सोपचारस्य प्रयोजनात् प्रायः पञ्चमासेभ्यः विदेशे निवसतः देउवस्य एकादशे अगस्तमासे स्वदेशं प्रत्यागमनस्य सिद्धता आसीत्। हाङ्काङ्गतः बैङ्काकं गत्वा तस्य नेपालप्रत्यागमनस्य कार्यक्रमः द्विदिनानि अग्रे परिवर्तितः अस्ति।

देउवस्य निकटस्थनेतॄणां कथनानुसारं सः शुक्रवासरे हाङ्काङ्गतः थाईलैण्डदेशस्य राजधानीं बैङ्काकनगरं प्राप्तवान्। अधुना बैङ्काकतः एव तस्य नेपालप्रत्यागमनस्य कार्यक्रमः निर्धारितः अस्ति। सः त्रयोदशे अगस्तमासे थाई एअरवेज् इत्यस्य विमानेन नेपालं प्रत्यागमिष्यति।

नेपालीकाङ्ग्रेसस्य देउवसमूहस्य तत्वावधाने चतुर्दशे अगस्तमासे काठमाण्डूनगरे राष्ट्रियसभागृहे सम्मेलनस्य आयोजनं कृतम् अस्ति। अस्मिन् सम्मेलने भागं ग्रहीतुं देशस्य सर्वेभ्यः भागेभ्यः नेतारः कार्यकर्तारश्च काठमाण्डूं प्राप्नुवन्ति। देउवः त्रयोदशे अगस्तमासस्य मध्याह्ने बैङ्काकतः त्रिभुवनान्तर्राष्ट्रीयविमानस्थानके अवतरिष्यति।

जनरेशन-जी आन्दोलनस्य समये गतवर्षस्य सितम्बरमासस्य दशमे दिनाङ्के बूढानीलकण्ठस्थिते देउवस्य आवासे अग्निसंयोगः कृतः आसीत्। तस्मिन् समये देउवदम्पत्योः उपरि अपि आक्रमणं कृतम् आसीत्।

देउवदम्पती उत्तमचिकित्सोपचाराय सिङ्गापुरदेशं गतवन्तौ आस्ताम्। उपचारानन्तरं नेपालं प्रत्यागत्य देउवः अनुवर्तीचिकित्सोपचाराय अस्य वर्षस्य फरवरीमासस्य पञ्चविंशतितमे दिनाङ्के पुनः सिङ्गापुरं गतवान्। सिङ्गापुरतः सः चिकित्सोपचाराय स्वपत्न्या आरजू राणा देउवया सह हाङ्काङ्गं प्राप्तवान्। दीर्घकालं हाङ्काङ्गे निवसित्वा सः शुक्रवासरे बैङ्काकनगरं प्राप्तवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani