पीएमकेवीवाई-४.०-अन्तर्गतं ५.४४-लक्षाधिकाः अभ्यर्थिनः नूतनयुगस्य रोजगाराय प्रशिक्षिताः
नवदिल्ली, १० अगस्तमासः (हि.स.)। देशे सर्वत्र प्रधानमन्त्रि-कौशल-विकास-योजनायाः ४.०-अन्तर्गतं प्रायः ५.४४-लक्षाधिकाः अभ्यर्थिनः नूतनयुगस्य भविष्यकालीन-रोजगार-भूमिकानां कृते प्रशिक्षिताः अथवा अभिमुखीकृताः सन्ति। परिवर्तमान-प्रौद्योगिक्याः तथा विपण्या
पीएमकेवीवाई-४.०-अन्तर्गतं ५.४४-लक्षाधिकाः अभ्यर्थिनः नूतनयुगस्य रोजगाराय प्रशिक्षिताः


नवदिल्ली, १० अगस्तमासः (हि.स.)। देशे सर्वत्र प्रधानमन्त्रि-कौशल-विकास-योजनायाः ४.०-अन्तर्गतं प्रायः ५.४४-लक्षाधिकाः अभ्यर्थिनः नूतनयुगस्य भविष्यकालीन-रोजगार-भूमिकानां कृते प्रशिक्षिताः अथवा अभिमुखीकृताः सन्ति। परिवर्तमान-प्रौद्योगिक्याः तथा विपण्याः आवश्यकतानुसारं युवानः सज्जीकर्तुं सर्वकारेण कृत्रिम-बुद्धिमत्ता, रोबोटिक्स, अन्तर्जाल-आधारित-वस्तु-प्रौद्योगिकी, अर्धचालक-प्रौद्योगिकी, ड्रोन-प्रौद्योगिकी, सौर-ऊर्जा तथा त्रिविमीय-मुद्रणम् इत्यादिषु क्षेत्रेषु ६००-अधिकाः नूतनाः पाठ्यक्रमाः प्रारब्धाः सन्ति।

कौशल-विकास-उद्यमिता-मन्त्रालयस्य राज्यमन्त्रिणा जयन्त-चौधरिणा सोमवासरे लोकसभायां प्रश्नस्य लिखितोत्तरे एषा सूचना प्रदत्ता। तेन उक्तं यत् ३० जून् २०२६ पर्यन्तं पीएमकेवीवाई-४.०-अन्तर्गतं देशे सर्वत्र ५.४४-लक्षाधिकेभ्यः अभ्यर्थिभ्यः नूतनयुगस्य भविष्यकालीन-रोजगार-सम्बद्धासु भूमिकासु प्रशिक्षणम् अथवा अभिमुखीकरणं प्रदत्तम् अस्ति।

पीएमकेवीवाई-४.० याचनाधारित-योजना अस्ति। अस्याः योजनायाः अन्तर्गतं प्रशिक्षणं राष्ट्रिय-कौशल-योग्यता-रूप-रेखायाः माध्यमेन मानकीकृतम् अस्ति तथा पाठ्यक्रमाः उद्योगस्य आवश्यकतानां राष्ट्रीय-प्राथमिकतानां च अनुरूपं निर्मिताः सन्ति। परिवर्तमान-प्रौद्योगिकी-विपणि-आवश्यकतानां दृष्ट्या ६००-अधिकाः नूतनयुगस्य भविष्यकालीन-रोजगार-भूमिकाभिः सम्बद्धाः पाठ्यक्रमाः प्रारब्धाः सन्ति।

सर्वकारस्य अनुसारं वित्तीयवर्षस्य २०२२-२३-तः गतत्रय-वर्षेषु तथा वर्तमान-वित्तीयवर्षे २०२६-२७ मध्ये पीएमकेवीवाई-४.०-योजनायाः कार्या-न्वयनाय २,३९२.३७-कोटि-रूप्यकाणि निर्गतानि सन्ति। योजनायां राज्येभ्यः पृथक् पृथक् धनराशेः आवंटनस्य प्रावधानं नास्ति।

पीएमकेवीवाई समाजस्य सर्वेभ्यः वर्गेभ्यः उपलब्धा अस्ति। अनुसूचितजातीनां, अनुसूचितजनजातीनां, महिलानां, दिव्याङ्गजनानां तथा अन्येषां वञ्चित-समूहानां सहभागितां वर्धयितुं विशेष-परियोजनाः सञ्चाल्यन्ते। आकांक्षी-जनपदेषु जनजातीय-क्षेत्रेषु च विशेषं ध्यानं दीयते।

समावेशी-कौशल-प्रशिक्षणाय पात्रेभ्यः अभ्यर्थिभ्यः सामान्य-मानकानुसारं आवासः, भोजनं तथा परिवहन-सुविधाः प्रदीयन्ते। अनावासीय-प्रशिक्षणस्य सन्दर्भे महिलानां दिव्याङ्गजनानां च परिवहन-व्ययः अपि वह्यते। दिव्याङ्ग-अभ्यर्थिभ्यः सहायक-उपकरणानां क्रयणाय ५,०००-रूप्यकपर्यन्तं सहायता प्रदीयते। सर्वेभ्यः अभ्यर्थिभ्यः एकवर्षस्य दुर्घटना-बीमासुविधा अपि प्रदीयते।

राज्यानुसार-आङ्किकानुसारं वित्तीयवर्षे २०२६-२७ मध्ये अद्यावधि देशे सर्वत्र ८५,७५४ अभ्यर्थिनः पीएमकेवीवाई-अन्तर्गतं प्रशिक्षिताः सन्ति। उत्तरप्रदेशे १०,८३४, मध्यप्रदेशे १४,३२२, पञ्जाबे १३,२०८ तथा तमिलनाडौ ३,६४० अभ्यर्थिनः अस्मिन् अवधौ प्रशिक्षणं प्राप्तवन्तः।

Hindusthan Samachar / Divya Ranjan