झारखंड छात्राणां मध्ये कदा गमिष्यति राहुल गांधी : केशव प्रसाद मौर्यः
लखनऊ, 10 अगस्तमासः (हि.स.)। भारतीयजनतापार्टी इति राजनैतिकदलस्य वरिष्ठनेता उत्तरप्रदेशस्य उपमुख्यमन्त्री च केशवप्रसादमौर्यः अवदत् यत् प्रयागराजं गच्छन् राहुलगान्धी झारखण्डस्य छात्राणां मध्ये गत्वा स्वस्य दर्पणं कदा पश्यति? उपमुख्यमन्त्री सोमवास
उप मुख्यमंत्री केशव प्रसाद मौर्य


लखनऊ, 10 अगस्तमासः (हि.स.)।

भारतीयजनतापार्टी इति राजनैतिकदलस्य वरिष्ठनेता उत्तरप्रदेशस्य उपमुख्यमन्त्री च केशवप्रसादमौर्यः अवदत् यत् प्रयागराजं गच्छन् राहुलगान्धी झारखण्डस्य छात्राणां मध्ये गत्वा स्वस्य दर्पणं कदा पश्यति?

उपमुख्यमन्त्री सोमवासरे स्वस्य सामाजिकमाध्यमसन्देशे लिखितवान् यत् राहुल! यदि भवतः संघर्षः वस्तुतः छात्राणां भविष्याय पारदर्शिपरीक्षाभ्यः च अस्ति, तर्हि झारखण्डं गत्वा आन्दोलनरताभ्यर्थिनां पीडां श्रुत्वा राज्ये स्वस्य गठबन्धनसर्वकारात् उत्तरं याचितुं साहसं कुरुत। केवलं भाजपाशासितेषु राज्येषु सक्रियता तथा स्वस्य गठबन्धनसर्वकाराणां विषये निष्क्रियता न चलिष्यति। भवतः राजनैतिकपर्यटनैः देशस्य तरुणाः अधुना ‘भ्रान्ताः’ न भविष्यन्ति।

एतेन तस्य तस्य च खानदानस्य एषः द्वैधस्वभावः प्रकाशितः भवति। झारखण्डे जेपीएससी-जेएसएससीपरीक्षाणां कथितेषु अनियमितताप्रकरणेषु, प्रश्नपत्रभेदने, नियुक्तिप्रक्रियायाः अनियमिततासु तथा आमरणानशनं कुर्वतां युवानां विषये तत्र छात्राणां स्वरं प्रति ‘मौनं’ धृत्वा राहुलस्य ‘सुविधावादी राजनीतिः’ प्रकाशिता भवति।

केशवप्रसादमौर्यः अवदत् यत् देशाय नैतिकतायाः पाठं पठितुं काङ्ग्रेसस्य समीपे किमपि नैतिकाधारं नास्ति। तथापि तस्याः बालहठयुक्तः नेता राहुलगान्धी भाजपां प्रधानमन्त्रिणं नरेन्द्रमोदिं च छात्रहितस्य नैतिकतायाः च पाठं पठितुं दुस्साहसं करोति। सः नरेन्द्रमोदिं अपकीर्तयित्वा प्रसिद्धिं प्राप्तुम् इच्छति, किन्तु अनेन तस्य द्वैधस्वभावः एव प्रकाशितो भवति।

उपमुख्यमन्त्री अवदत् यत् काङ्ग्रेसः अधुना जनहितस्य पार्टी नास्ति, अपितु मातापुत्रपुत्रीपर्यन्तं सीमितं परिवारवादीराजनैतिकप्रतिष्ठानं जाता अस्ति। देशस्य युवभ्यः, कृषकेभ्यः, महिलाभ्यः, निर्धनेभ्यश्च वास्तविकं सरोकारं त्यक्त्वा केवलं सत्तालोभेन नाट्यं कृत्वा जनानां विश्वासः न प्राप्यते। यदि एषा अवसरवादी द्वैधनीतिः एवं प्रवर्तते तर्हि वर्षे २०४७ अपि सत्ता तु दूरम्, काङ्ग्रेसः सत्तायाः समीपेऽपि दृश्यते न।

केशवप्रसादमौर्यः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी भारतमातुः ललाटस्य सच्चं मुकुटम् अस्ति। भारतीयजनतापार्टीदलं राष्ट्रसेवायै, सुशासनाय, विकसितभारतस्य निर्माणाय च सदैव समर्पिता अस्ति। अतः भाजपायै नैतिकतायाः पाठं पठितुं पूर्वं काङ्ग्रेसं स्वस्य गठबन्धनसर्वकारांश्च पश्यतु।

Hindusthan Samachar / Dheeraj Maithani