रिजिजू विपक्षं सदनस्य कार्यवाहीं सुचारुरूपेण सञ्चालयितुं सहयोगं कर्तुम् आग्रहं कृतवान्
नवदिल्ली, १० अगस्तमासः (हि.स.)। संसदि प्रचलितस्य गतिरोधस्य मध्ये संसदीय-कार्यमन्त्री किरेन-रिजिजू विपक्षं सदनस्य कार्यवाहीं सुचारुरूपेण सञ्चालयितुं सहयोगं कर्तुम् आग्रहं कृतवान्। सः अवदत् यत् सर्वकारः छात्रान्दोलनसम्बद्धेषु विषयेषु सदने विस्तृतां च
किरन रिजूजू (फाइल फोटो)


नवदिल्ली, १० अगस्तमासः (हि.स.)। संसदि प्रचलितस्य गतिरोधस्य मध्ये संसदीय-कार्यमन्त्री किरेन-रिजिजू विपक्षं सदनस्य कार्यवाहीं सुचारुरूपेण सञ्चालयितुं सहयोगं कर्तुम् आग्रहं कृतवान्। सः अवदत् यत् सर्वकारः छात्रान्दोलनसम्बद्धेषु विषयेषु सदने विस्तृतां चर्चां कर्तुम् इच्छति, किन्तु अस्मिन् विषये विपक्षेन अपि सहयोगः करणीयः। तेषां सर्वेषां प्रश्नानाम् उत्तरं गृहमन्त्री सदने दास्यति, किन्तु चर्चायाः समये कोलाहलः न भविष्यति। तदैव विस्तृता चर्चा सम्भविष्यति।

रिजिजू संसदः परिसरे पत्रकारैः सह वार्तालापे अवदत् यत् सर्वकारस्य पक्षतः विपक्षस्य समक्षं प्रस्तावः सर्वथा स्पष्टः अस्ति। यत् किमपि आन्दोलनं भवेत्, तत् दिल्ली भवतु अथवा झारखण्ड:, तेषां सर्वेषाम् आन्दोलनानां विषये चर्चा भवितुं शक्नोति। सर्वकारः कदापि चर्चायाः पृष्ठतः न अपसरति। वयं विद्यार्थिनां विषयेषु चर्चां करिष्यामः। विपक्षेण गृहमन्त्रिणः सर्व-कारस्य च उत्तरं श्रोतव्यम्। एकदा चर्चा प्रारभ्यते चेत् अस्मिन् विषये प्रत्येकस्मिन् पक्षे विस्तरेण गहनतया च चर्चा कर्तव्या।

केन्द्रीयमन्त्रिणा स्पष्टं कृतं यत् सर्वकारः चर्चायाः पृष्ठतः न अपसरति, किन्तु तदर्थं सदने व्यवधानस्य स्थाने संवादः तथा संसदीय-प्रक्रियायाः पालनम् आवश्यकम्। सः अवदत् यत् चर्चा प्रारब्धे सति विषयस्य विषये गहनतया चर्चा कर्तव्या।

हिन्दुस्थान समाचार / Divya Ranjan