Enter your Email Address to subscribe to our newsletters

नवदिल्ली , १० अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य ‘एक्स’-सामाजिकमाध्यमपटले अद्य प्रातः सहभाग-कृतस्य सुभाषितस्य माध्यमेन प्रसिद्धेन वैदिक-शान्तिमन्त्रेण उत्तमाचरणेन श्रेष्ठगुणैश्च जीवनं यापयितुम् आह्वानं कृतम् अस्ति।
तत् सुभाषितम् अस्ति—
“भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः॥” इति।
अयं वैदिकः शान्तिमन्त्रः अस्ति। अयं ऋग्वेदस्य प्रथममण्डलस्य ८९तमस्य सूक्तस्य ८तमात् मन्त्रात् उद्धृतः अस्ति। अस्य मन्त्रस्य उल्लेखः उपनिषत्स्वपि दृश्यते।
प्रधानमन्त्रिणः ‘एक्स’-सामाजिक-माध्यमपटले अस्य मन्त्रस्य हिन्दी-भाषायाम् अर्थः एवं प्रदत्तः अस्ति— “वयं सत्यं, शुभं ज्ञानवर्धकं च वचनं शृणुयाम। कल्याणकारी-विचारान् स्वीकर्याम। स्वस्थशरीरेण, उत्तमाचरणेन, श्रेष्ठगुणैश्च जीवनं लोकहिताय समर्पयेम। सत्याः, प्रामाणिकाः, जनहितकारिण्यश्च सूचनाः प्रसारयित्वा राष्ट्रं समाजं च जागरूकं, सशक्तं समरसञ्च कुर्याम।”
Hindusthan Samachar / Divya Ranjan