Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 10 अगस्तमासः (हि.स.)।रिपब्लिकन पार्टी ऑफ इंडिया (आठवले) इत्यस्य राष्ट्रीयाध्यक्षः तथा भारतसर्वकारस्य केन्द्रीयसामाजिकन्यायाधिकारितामन्त्री रामदास आठवले इत्यनेन उक्तं यत् आगामीषु कतिपयवर्षेषु आरपीआई इत्यस्य राष्ट्रियदलस्य मान्यता प्राप्तुं प्रयत्नः दलस्य प्रमुखं लक्ष्यम् अस्ति। एतदर्थं संगठनस्य राष्ट्रव्यापी विस्ताराय जनाधारवर्धनाय च विशेषरूपेण बलं दीयते।
नवमहाराष्ट्रसदने आयोजितस्य आरपीआई इत्यस्य राष्ट्रियकार्यकारिण्याः उपवेशनस्य अनन्तरं पत्रकारैः सह वार्तालापं कुर्वन् रामदास आठवले इत्यनेन उक्तं यत् सर्वकारीयक्षेत्रस्य साथमेव निजीक्षेत्रेऽपि अनुसूचितजातीनां, अनुसूचितजनजातीनां, अन्यपश्चात्वर्गाणां तथा अन्येषां वञ्चितवर्गाणां जनसंख्यायाः सामाजिकस्थितेः च अनुरूपं प्रतिनिधित्वं सुनिश्चितं करणीयम्। आरपीआई इत्यस्य राष्ट्रियाध्यक्षः रामदास आठवले निजीक्षेत्रे आरक्षणव्यवस्थायाः कार्यान्वयनस्य आवश्यकतायां विशेषं बलं दत्तवान्।
रामदास आठवले इत्यनेन उक्तं यत् नागालैण्डे विधानसभायाः द्वयोः आसनयोः विजयस्य तथा मणिपुरे दलस्य उत्तमप्रदर्शनस्य अनन्तरं द्वयोः राज्ययोः आरपीआई इत्यस्मै राज्यस्तरीयदलस्य मान्यता पूर्वमेव प्राप्ता अस्ति। सर्वेषु अष्टाविंशतिराज्येषु अष्टसु केन्द्रशासितप्रदेशेषु च संगठनं सक्रियतया कार्यं करोति।
राष्ट्रियकार्यकारिण्याः उपवेशने दलस्य राष्ट्रियपदाधिकारिभिः प्रमुखकार्यकर्तृभिश्च संगठनस्य वर्तमानस्थितेः, आगामीकार्ययोजनायाः तथा विभिन्नराज्येषु दलस्य विस्तारस्य विषये विस्तृततया चर्चा कृता।
रामदास आठवले इत्यनेन उक्तं यत् दलं शीघ्रमेव द्विकोटिनूतनसदस्यान् संयोजयितुं राष्ट्रव्यापिनं सदस्यताभियानम् आरभिष्यति। अस्य अभियानस्य उद्देश्यं केवलं सदस्यसंख्यायाः वर्धनं न, अपि तु प्रत्येकस्मिन् राज्ये, जनपदे, विधानसभाक्षेत्रे तथा मतदानकेन्द्रस्तरे सुदृढां सक्रियां च संगठनात्मकसंरचनां निर्मातुम् अस्ति।
रामदास आठवले इत्यनेन उक्तं यत् ‘भारतत्न’संविधाननिर्माता बाबासाहेबः डॉ. भीमराव आंबेडकरः आरपीआई इत्यस्य वैचारिकशक्तेः सामाजिकन्यायस्य राजनीतेश्च आधारभूतः प्रेरणास्रोतः अस्ति। दलं बाबासाहेबस्य संविधानस्य, समानतायाः, स्वातन्त्र्यस्य, बन्धुत्वस्य तथा सामाजिकन्यायस्य सन्देशं देशस्य प्रत्येकं वर्गं प्रति प्रापयितुं निरन्तरं कार्यं करोति।
रामदास आठवले इत्यनेन दलस्य पदाधिकारिणां कार्यकर्तॄणां च आह्वानं कृतं यत् ते जनानां स्थानीयसमस्यानां प्राथमिकतया समाधानाय प्रयत्नं कुर्वन्तु, सामान्यजनैः सह निरन्तरं संवादं स्थापयन्तु तथा संगठनं जनसेवायाः प्रभाविशाधनरूपेण परिणमयन्तु। रामदास आठवले इत्यनेन उक्तं यत् आरपीआई इत्यस्य राष्ट्रियस्तरे सशक्तराजनीतिकविकल्परूपेण स्थापनायां प्रत्येकस्य कार्यकर्तुः महत्त्वपूर्णा भूमिका अस्ति।
रामदास आठवले इत्यनेन उक्तं यत् आरपीआई अनुसूचितजातीनां, अनुसूचितजनजातीनां, अल्पसंख्याकानां, कृषकाणां, श्रमिकाणां तथा समाजस्य अन्येषां वञ्चितवर्गाणां अधिकाराणां कृते दृढतया स्वरं उत्थापयिष्यति।
अस्मिन् अवसरे राष्ट्रियकार्यकारिण्याः सर्वे पदाधिकारिणः, सर्वेषां राज्याणां प्रभारीजनाः, सर्वे प्रदेशाध्यक्षाः तथा वरिष्ठपदाधिकारिणश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani