संघस्य अखिल भारतीय समन्वयोपवेशनं विशाखापत्तने 19 तः21 अगस्तं यावत्
नवदिल्ली, 10 अगस्तमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघप्रेरितविविधसंगठनानां ‘अखिलभारतीयसमन्वयस्य उपवेशनम्’ अगस्तमासस्य १९ दिनाङ्कतः २१ दिनाङ्कपर्यन्तम् आन्ध्रप्रदेशस्य विशाखापत्तनम्जनपदस्य गुडीलोवा इत्यत्र आयोजयिष्यते। अस्य उपवेशनस्य आयोजनं प्रतिव
आरएसएस


नवदिल्ली, 10 अगस्तमासः (हि.स.)।

राष्ट्रीयस्वयंसेवकसंघप्रेरितविविधसंगठनानां ‘अखिलभारतीयसमन्वयस्य उपवेशनम्’ अगस्तमासस्य १९ दिनाङ्कतः २१ दिनाङ्कपर्यन्तम् आन्ध्रप्रदेशस्य विशाखापत्तनम्जनपदस्य गुडीलोवा इत्यत्र आयोजयिष्यते। अस्य उपवेशनस्य आयोजनं प्रतिवर्षं भवति।

संघस्य अखिलभारतीयप्रचारप्रमुखः सुनील आंबेकरः एकस्मिन् वक्तव्ये अवदत् यत् अस्मिन् उपवेशने संघप्रेरितानां कुलतः ३२ संगठनानां प्रमुखपदाधिकारिणः सहभागी भविष्यन्ति। अस्मिन् तेषां संगठनानाम् अखिलभारतीयाध्यक्षाः, महासचिवाः, संगठनमन्त्रिणः तथा कतिपयाः चयनितपदाधिकारिणश्च उपस्थिताः भविष्यन्ति।

आंबेकरः अवदत्, “उपवेशने मुख्यरूपेण सर्वे स्वस्वकार्याणां संसूचनां प्रददति तथा विभिन्नेषु महत्त्वपूर्णविषयेषु स्वावलोकनं सुझावांश्च प्रस्तुतयन्ति। सर्वेषां संगठनानां मध्ये परस्परं समन्वयं सहयोगं च अधिकं प्रभावि कर्तुं, जनकल्याणस्य नीतिविषयाणां च सम्बन्धे संवादं स्थापयितुम् इत्यादिविषयेषु उपवेशने चर्चा भविष्यति। तदनन्तरं जनसंख्यायाः असन्तुलनम्, व्यसनमुक्तिः, युवकेषु जागरणम्, पञ्चपरिवर्तनस्य क्रियान्वयनम्, विकासस्य भारतीयसंकल्पना इत्यादीनां वर्तमानपरिस्थितिसम्बद्धानां विविधविषयाणां विषयेऽपि उपवेशने चर्चा अपेक्ष्यते।”

उपवेशने संघस्य सरसंघचालकः डॉ. मोहनभागवत्, सरकार्यवाहः दत्तात्रेयहोसबाले, सर्वे सहसरकार्यवाहाः तथा अखिलभारतीयकार्यविभागप्रमुखाः उपस्थिताः भविष्यन्ति। अस्मिन् राष्ट्रसेविकासमितिः, भारतीयजनतापार्टी, विश्वहिन्दुपरिषद्, अखिलभारतीयविद्यार्थिपरिषद्, भारतीयमजदूरसंघः, भारतीयकिसानसंघः इत्यादीनां कुलतः ३२ संगठनानां प्रमुखपदाधिकारिणः सम्मिलिताः भविष्यन्ति।

तेन उक्तं यत् संघस्य एते ३२ संगठनानि गतानां अनेकवर्षाणां कालात् सामाजिकजीवने निरन्तरं सक्रियाणि सन्ति। सार्वजनिकक्षेत्रे विभिन्नप्रकाराणां समस्यानाṁ समाधानाय कार्यं कुर्वन्तः राष्ट्रहिते लोकजागरणस्य व्यवस्थायां आवश्यकसुधारस्य परिवर्तनस्य च दीर्घकालिककार्ये तत्परतया संलग्नाः सन्ति।

------------

Hindusthan Samachar / Dheeraj Maithani