Enter your Email Address to subscribe to our newsletters

डूंगरपुरम्, १० अगस्तमासः (हि.स.)। रक्षाबन्धनस्य पावनपर्वणः दृष्ट्वा भारतीय-डाक-विभागस्य डूंगरपुर-मण्डलेन सामान्यजनानां कृते विशेषाभियानम् आरब्धम्। अस्य अभियानस्य अन्तर्गतं भगिनीभिः प्रेष्यमाणानि रक्षासूत्राणि देशस्य कोणे-कोणे स्थितै: जनै: सह सीमासु नियुक्तेभ्यः सैनिकेभ्यः अपि सुरक्षितरूपेण प्रेषयिष्यन्ते।
डाक-अधीक्षकः राकेश-कुमार-अग्रवालः अवदत् यत् इदमभियानम् अगस्तमासस्य २८ दिनाङ्कपर्यन्तं प्रचलिष्यति। पर्वणः अवधौ नागरिकानां सुविधायै प्रधान-डाकघरेषु उप-डाकघरेषु च विशेष-राखी-लिफाफा तथा राखी-पेटिकाः उपलब्धाः कारिताः सन्ति। एतेषां पुटीकरणं तादृशरीत्या सज्जीकृतम् अस्ति, येन परिवहनस्य अवधौ रक्षासूत्राणि सुरक्षितानि तिष्ठन्ति।
डाक-विभागेन अगस्तमासस्य १२ दिनाङ्कतः विशेष-प्रोत्साहन-योजना प्रवर्तयितुं निर्णयः कृतः। अस्याः योजनायाः अन्तर्गतं निर्धारितावधौ अधिकतम-पञ्च-राखी-लिफाफा इत्यादिनां बुकिङ्ग इति कारयितुं स्पीड-पोस्ट-शुल्के दश-प्रतिशतम् पर्यन्तं स्वल्पता प्रदास्यते। डाक-विभागेन सामान्यजनाः योजनायाः लाभं ग्रहीतुं आह्वानं कृतम्।
Hindusthan Samachar / Divya Ranjan