Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 10 अगस्तमासः (हि.स.)।
पवित्रे श्रावणमासस्य द्वितीयसोमवासरे सम्पूर्णे क्षेत्रे अद्य श्रद्धायाः भक्तेः च अभूतपूर्वः प्रवाहः दृष्टः। प्रातःकालस्य आरम्भादेव सर्वेषु प्रमुखेषु शिवालयेषु मन्दिरपरिसरेषु च श्रद्धालूनां महती भीडः समागन्तुं प्रारब्धा। सर्वत्र ‘हर हर महादेव’, ‘बम बम भोले’ तथा ‘ॐ नमः शिवाय’ इत्येतेषां घोषाणां प्रतिध्वनिभिः सम्पूर्णं वातावरणं शिवमयं जातम्।
सोमवारव्रतस्य अवसरे श्रद्धालूनां, विशेषतः महिलानां युवानां च मध्ये महत् उत्साहः दृष्टः। पवित्रायां गङ्गानद्यां अन्येषु च घाटेषु प्रातःकालादेव स्नानार्थिनां महती भीडः आसीत्।
गङ्गास्नानानन्तरं हस्तेषु जलं बिल्वपत्राणि धत्तूरं पुष्पाणि नैवेद्यं च गृहीत्वा भक्ताः मन्दिराणां प्रति प्रस्थितवन्तः। नगरस्य सर्वेषु शिवालयेषु सुरक्षां सुव्यवस्थां च स्थापयितुं काष्ठदण्डैः अवरोधव्यवस्था कृता आसीत्, यत्र भक्ताः दीर्घासु पङ्क्तिषु स्ववारस्य प्रतीक्षां कुर्वन्तः दृष्टाः।
क्षेत्रस्य सर्वेषु ऐतिहासिकेषु पौराणिकमान्यताप्राप्तेषु च मन्दिरेषु भक्ताः पङ्क्तिबद्धाः भूत्वा शिवलिङ्गे जलाभिषेकं, दुग्धाभिषेकं घृताभिषेकं च कृतवन्तः।
ऐतिहासिके बूढानाथमन्दिरे प्रातःकालादेव सहस्रशः भक्तानां पङ्क्तिः समजायत। बाबा बूढानाथस्य आकर्षकं शृङ्गारं कृतम् तथा भव्य आरती अपि सम्पन्ना। शिवशक्तिमन्दिरेऽपि श्रद्धालूनां निरन्तरः समागमः अभवत्। मन्दिरप्रबन्धनेन जलार्पणस्य कृते विशेषसज्जता प्रदर्शिता।
बाबा भूतनाथस्य मन्दिरे अघोररूपस्य भस्मारतेश्च दर्शनं कर्तुं जलाभिषेकं च कर्तुं युवानां महती भीडः समागता। भक्ताः मनसकामनाथमन्दिरे प्रणम्य स्वमनोकामनाः प्रार्थितवन्तः। जनश्रुत्यनुसारं श्रावणस्य सोमवासरे अत्र जलार्पणेन प्रत्येकं मनोवाञ्छा पूर्णा भवति।
तदतिरिक्तं मुहल्लेषु निवासक्षेत्रेषु च स्थितेषु लघुषु बृहद्रूपेषु च सर्वेषु शिवमन्दिरेषु प्रातःकालाद् मध्याह्नपर्यन्तं निरन्तरं जलाभिषेकस्य क्रमः प्रचलितः।
सायंकाले सर्वेषु मन्दिरेषु बाबा भोलेनाथस्य विशेषमहाशृङ्गारः कृतः, तस्य दर्शनाय पुनरपि दर्शनार्थिनां महती भीडः समागता। जनसमूहस्य नियन्त्रणाय विधिव्यवस्थां च स्थापयितुं जिलाप्रशासनस्य आरक्षिबलस्य च नियुक्तिः सर्वेषु प्रमुखेषु स्थानेषु कृता आसीत्।
साधारणवेषधारिणः महिला-पुरुषारक्षिणोऽपि सज्जाः दृष्टाः। विविधैः सामाजिकसङ्गठनैः पूजासमितिभिश्च कावडधारिभ्यः सामान्यभक्तेभ्यश्च निम्बूपानकस्य, शर्बतस्य चिकित्साशिबिराणां च व्यवस्था कृता आसीत्, येन तीव्रोष्णतायाः आर्द्रतायाश्च मध्ये श्रद्धालुभ्यः पर्याप्ततया रक्षा प्राप्ता।
Hindusthan Samachar / Dheeraj Maithani