श्रावणस्य द्वितीयसोमवासरे बाबा गरीबनाथधामे ३.५ लक्षाधिकैः श्रद्धालुभिः जलाभिषेकः कृतः
मुजफ्फरपुरम्, १० अगस्तमासः (हि.स.)। मुजफ्फरपुरे श्रावणमासस्य द्वितीय-सोमवासरे बाबा गरीबनाथधाम्नि श्रद्धायाः महान् तरंग: दृश्यते। रात्रौ १२ वादनादेव बाबा-गरीबनाथस्य जला-भिषेकस्य क्रमः निरन्तरं प्रचलति। मन्दिरपरिसरात् कांवडियामार्गं यावत् श्रद्धालूना
बाबा गरीब नाथ धाम मुजफ्फरपुर में दूसरी सोमवार पर जलाभिषेक करने पहुंचे श्रद्धालु


मुजफ्फरपुरम्, १० अगस्तमासः (हि.स.)। मुजफ्फरपुरे श्रावणमासस्य द्वितीय-सोमवासरे बाबा गरीबनाथधाम्नि श्रद्धायाः महान् तरंग: दृश्यते। रात्रौ १२ वादनादेव बाबा-गरीबनाथस्य जला-भिषेकस्य क्रमः निरन्तरं प्रचलति। मन्दिरपरिसरात् कांवडियामार्गं यावत् श्रद्धालूनां दीर्घाः पङ्क्तयः दृश्यन्ते।

मन्दिरप्रशासनेन उक्तं यत् अद्यावधि सार्धत्रिलक्षाधिकैः डाक-कांवडियाभिः श्रद्धालुभिश्च बाबा-गरीबनाथस्य जला-भिषेकः कृतः। अपरतः अद्य पञ्चलक्षाधिकाः श्रद्धालवः आगमिष्यन्ति इति अनुमानम् अस्ति।

विशेषत्वेन अस्मिन् वर्षे श्रावणमासस्य द्वितीयसोमवासरेण सह प्रदोषतिथिरपि अस्ति। श्रद्धालूनां महतीं भीडं दृष्ट्वा प्रशासनद्वारा सुरक्षायाः दृढाः व्यवस्थाः कृताः सन्ति। प्रथमवारं श्रद्धालूनाम् उपरि हेलिकॉप्टरद्वारा पुष्पवृष्टिरपि क्रियते।

मन्दिरस्य मुख्यपुरोहितः अभिषेकपाठकः अवदत् यत् अद्यावधि प्रायः सार्धैकलक्षं डाक-कांवडियाः तथा द्विलक्षाधिकाः अन्ये कांवडियाः श्रद्धालवश्च बाबा-गरीबनाथस्य जलाभिषेकं कृतवन्तः। द्वितीयसोमवासरे पञ्चलक्षाधिकाः श्रद्धालवः बाबा-गरीबनाथस्य दर्शनार्थं मन्दिरं प्राप्नुयुः इति सम्भावना अस्ति।

सः अवदत् यत् श्रावणमासस्य द्वितीय-सोमवासरेण सह प्रदोषतिथेः संयोगात् अस्मिन् वर्षे बाबा-गरीबनाथस्य दर्शनस्य जलाभिषेकस्य च विषये श्रद्धालुषु विशेषः उत्साहः दृश्यते।

द्विसहस्राधिकाः आरक्षिकाः बहवश्च दण्डाधिकारिणः सुरक्षायै नियोजिताः सन्ति। तदतिरिक्तं प्रायः ३२०० स्वयंसेवकाः श्रद्धालूनां साहाय्याय जनसमूहस्य नियन्त्रणाय च नियुक्ताः सन्ति।

मेलाक्षेत्रे प्रमुखेषु स्थानेषु च सीसीटीवी-कैमरा-माध्यमेन निरीक्षणं क्रियते। कस्यापि आकस्मिकस्थितेः सम्मुखिनं कर्तुं आपत्कालीन-सूचनासूचकस्य व्यवस्था अपि कृता अस्ति।

/ अंशु गुप्ता