अण्डर-२३ राष्ट्रमण्डल-तलवारबाजी-चैम्पियनशिपस्पर्धाया: प्रथमदिने भारतस्य वर्चस्वम्, १७ पदकानि विजितानि
लागोस:, १० अगस्तमासः (हि.स.)। अण्डर-२३ राष्ट्रमण्डल-तलवारबाजी-चैम्पियनशिप-प्रतियोगितायां भारतीयदलेन प्रथमदिने एव सम्यक् प्रदर्शनं कुर्वता आहत्य १७ पदकानि विजितानि। भारतस्य पुरुष-महिला-वैयक्तिक-स्पर्धासु चत्वारि स्वर्णपदकानि, चत्वारि रजतपदकानि तथा न
भारतीय तलवार बाजी दल


लागोस:, १० अगस्तमासः (हि.स.)। अण्डर-२३ राष्ट्रमण्डल-तलवारबाजी-चैम्पियनशिप-प्रतियोगितायां भारतीयदलेन प्रथमदिने एव सम्यक् प्रदर्शनं कुर्वता आहत्य १७ पदकानि विजितानि। भारतस्य पुरुष-महिला-वैयक्तिक-स्पर्धासु चत्वारि स्वर्णपदकानि, चत्वारि रजतपदकानि तथा नव कांस्यपदकानि प्राप्तानि। अनेन अन्ता-राष्ट्रिय-तलवारबाजी-मञ्चे भारतेन अद्यावधि सर्वाधिकं प्रभावशालीप्रदर्शनं कृतम्। एषा प्रतियोगिता ९ अगस्तमासात् प्रारब्धा अस्ति तथा १४ अगस्तमासपर्यन्तं भविष्यति।

भारतीय-क्रीडकैः सर्वेषु वर्गेषु स्वस्य सुदृढा उपस्थितिः पञ्जीकृता। सेबर, फॉयल तथा एपी इत्येतेषां षट् वैयक्तिक-स्पर्धानां प्रत्येकस्मिन् वर्गे न्यूनातिन्यूनम् एकेन भारतीय-तलवारबाज इत्यनेन पदकं प्राप्तम्। पुरुष-सेबर-स्पर्धायां भारतीय-क्रीडकैः सम्पूर्णं पोडियम् अधिगतम्। निखिल-वाघः स्वर्णपदकं विजितवान्, लक्ष्य-बादसरः च रजतपदकं प्राप्तवान्।

अश्विनी-आर्यः तथा लाइशराम-मोराम्बा च कांस्यपदकं जित्वा भारतस्य सम्यक् क्लीन-स्वीप् पूर्णं कृतवन्तौ। पुरुष-फॉयल-स्पर्धायां तेजस-पाटिलः रजतपदकं तथा हेमाश-सनासमः कांस्य-पदकं विजितवान्। अस्यां स्पर्धायां इंग्लैण्डदेशस्य ओलिवरः स्वर्णपदकं प्राप्तवान्।

पुरुष-एपी-स्पर्धायां लोकेश-वेमानी रजतपदकं विजितवान्, शौर्य-अश्विनी तथा गॉडविन-अनबकेस च कांस्यपदकानि प्राप्तवन्तौ। नाइजीरियादेशस्य थॉम्पसनः स्वर्णपदकं विजितवान्।

महिलावर्गेऽपि भारतीय-क्रीडकाणां वर्चस्वम्

महिलावर्गेऽपि भारतीय-तलवारबाजानां वर्चस्वं निरन्तरं विद्यमानम् आसीत्। महिला-फॉयल-स्पर्धायां जॉयस-अशिता स्वर्णपदकं विजितवती, तस्याः भारतीय-सहक्रीडिका कनागलक्ष्मी च रजतपदकं प्राप्तवती। महिला-एपी-स्पर्धायां प्राची-लोहानः स्वर्णपदकं विजितवती। निवेद्या-नायरः तथा अनुप्रिया च कांस्यपदकानि स्वीकृतवत्यौ।

महिला-सेबर-स्पर्धायां जेफरलिनः स्वर्णपदकं तथा आखारी रजतपदकं विजितवती, श्रेया-गुप्ता च कांस्यपदकं प्राप्तवती।

भविष्याय सुदृढः आधारः

भारतीय-तलवारबाजी-सङ्घस्य महासचिवः राजीव-महेता भारतीयदलस्य शानदार-प्रदर्शनस्य कृते क्रीडकान्, प्रशिक्षकान्, सहयोगि-कर्मचारिणः तथा परिवारान् अभिनन्दितवान्।

ते एकस्मिन् निवेदने उक्तवन्तः, “अहं सर्वान् पदकविजेतॄन्, प्रशिक्षकान्, सहयोगि-कर्मचारिणः तथा परिवारान् हार्दिकतया अभिनन्दामि। भारतस्य अस्मिन् प्रदर्शने तेषां निरन्तरं परिश्रमः योगदानं च महत्त्वपूर्णम् अस्ति। अस्माकं उद्देश्यम् अस्ति यत् युवा-भारतीय-तलवारबाज इत्येतेभ्यः अन्ताराष्ट्रियस्तरे प्रतिस्पर्धां कर्तुं अधिकाः अवसराः प्रदीयेरन् तथा ते वरिष्ठ-स्पर्धा-परिक्रमे प्रमुख-चैम्पियनशिप्-प्रतियोगितीनां च कृते सज्जाः क्रियेरन्। एतानि उपलब्धयः भविष्याय अधिकं सुदृढं प्रतिस्पर्धात्मकं च दलं निर्मातुं दिशि महत्त्वपूर्णा: पदक्षेपा: सन्ति।”

भारतीय-तलवारबाजी-सङ्घेन युवा-प्रतिभानां निरन्तरं प्रोत्साहनं कर्तुं तथा तेभ्यः अन्ताराष्ट्रियस्तरे अधिकान् अवसरान् प्रदातुं स्वस्य प्रतिबद्धता पुनः प्रतिपादिता। अस्मिन् प्रदर्शनेन भारतीय-तलवारबाज इत्येतै: वैश्विकस्तरे सुदृढस्य प्रभावशालिनः च दलस्य रूपेण स्वस्य अधिकारं अधिकं सुदृढं कृतम्।

Hindusthan Samachar / Divya Ranjan