तमिलनाडु-विधानसभायां सर्वकारीय-कार्यक्रमाणां प्रारम्भे राज्यगीतस्य ‘तमिळ-ताय-वाऴ्त्तु’ इत्यस्य गायनस्य प्रस्तावः पारितः
चेन्नई, १० अगस्तमासः (हि.स.)। तमिलनाडु-विधानसभायां अद्य राज्यस्य सर्वकारीय-कार्यक्रमाणां प्रारम्भे राज्य-गीतस्य ‘तमिळ-ताय-वाऴ्त्तु’ इत्यस्य गायनम् अनिवार्यं कर्तुं सम्बन्धितः प्रस्तावः सर्वसम्मत्या पारितः। अयं प्रस्तावः मुख्यमन्त्रिणा सी. जोसेफ-विज
मुख्यमंत्री विजय


चेन्नई, १० अगस्तमासः (हि.स.)। तमिलनाडु-विधानसभायां अद्य राज्यस्य सर्वकारीय-कार्यक्रमाणां प्रारम्भे राज्य-गीतस्य ‘तमिळ-ताय-वाऴ्त्तु’ इत्यस्य गायनम् अनिवार्यं कर्तुं सम्बन्धितः प्रस्तावः सर्वसम्मत्या पारितः। अयं प्रस्तावः मुख्यमन्त्रिणा सी. जोसेफ-विजयेन प्रस्तुतः।

मुख्यमन्त्री विजयः अवदत् यत् तस्य तमिळग-वेट्रि-कषगम् सर्वकारः तमिलनाडुराज्यस्य भाषिकाणां सांस्कृति-कानां च अधिकाराणां विषये किमपि सन्धिं न करिष्यति। विजयः स्वीयसम्बोधने अवदत्— ‘‘तमिळ केवलं भाषा नास्ति, अपितु सा अस्माकं जीवनम् अस्माकं भावनाश्च सन्ति। मातृभाषा स्वमातरम् इव पवित्रा अस्ति।’’

प्रस्तावानुसारं तमिलनाडुराज्ये शैक्षणिक-संस्थासु, विश्वविद्यालयेषु, सर्वकारीय-कार्यालयेषु तथा सार्वजनिक-क्षेत्रस्य उपक्रमेषु आयोजितानां सर्वेषां कार्यक्रमाणां प्रारम्भः अधुना राज्यगीतस्य गायनेन भविष्यति। मुख्यमन्त्रिणा विजयेन तमिलभाषायाः महत्त्वं तथा भारतीय-सङ्घीयव्यवस्थायां ‘तमिळ-ताय-वाऴ्त्तु’ इत्यस्य महत्त्वं च रेखाङ्कयता अत्यन्तं भावुकं भाषणं कृतम्। सः सदने उपस्थितान् सर्वान् सदस्यांन् आहूतवान् यत् ते दलगतभेदान् अतिक्रम्य अस्य प्रस्तावस्य समर्थनं कुर्वन्तु।

विजयः अवदत्— ‘‘विश्वस्य सर्वाः भाषाः सम्प्रेषणस्य माध्यमानि सन्ति। अस्माकं कृते तमिळ केवलं कथनस्य भाषा अथवा ध्वनिः नास्ति। सा अस्माकं प्राणः, भावना परिचयश्च अस्ति।’’ सः अवदत् यत् १८९१ तमे वर्षे लेखकस्य मनोन्मणियम्-सुन्दर-नारस्य नाटकस्य पायिरम् इत्यस्मिन् समाविष्टं ‘तमिळ-ताय-वाऴ्त्तु’ भारतस्य ललाटे तिलकवत् तमिलनाडुराज्यस्य गौरवं वर्धयति।

सः स्मारितवान् यत् तमिलनाडुराज्ये २३ नवम्बर १९७० तमदिनाङ्कात् सर्वकारीय-समारोहेषु ‘तमिळ-ताय-वाऴ्त्तु’ इत्यस्य प्रमुखतया गायनं क्रियते। १७ दिसम्बर् २०२१ तमदिनाङ्के च तत् आधिकारिक-रूपेण राज्यगीतत्वेन मान्यतां प्राप्तवान्। उल्लेखनीयं यत् एषः निर्णयः केन्द्रीय-गृहमन्त्रालयस्य साम्प्रतिक-सलाहानन्तरं स्वीकृतः।

अस्मिन् सन्दर्भे राज्येभ्यः केन्द्रशासित-प्रदेशेभ्यश्च जनवरीमासस्य २८ दिनाङ्के प्रदत्तस्य निर्देशस्य ‘कठोरतया पालनं’ कर्तुं उक्तम् आसीत्। अस्मिन् निर्देशे आधिकारिक-कार्यक्रमेषु राष्ट्रगानात् पूर्वं राष्ट्रगीतस्य ‘वन्दे मातरम्’ इत्यस्य गायनस्य उल्लेखः आसीत्।

Hindusthan Samachar / Divya Ranjan