Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १० अगस्तमासः (हि.स.)। त्रिपुरा-राज्येन प्रथमवारं संयुक्त-अरब-अमीरात-देशं प्रति स्वस्य विशिष्टस्य एकस्य मेट्रिक-टन-मितस्य जैविक-मधुनः प्रथमः प्रेषणसमूहः प्रेषितः। पूर्वोत्तर-क्षेत्रात् कृषिनिर्याताय महत्त्वपूर्णं प्रोत्साहनं प्रददता कृषि-प्रसंस्कृत-खाद्य-उत्पाद-निर्यात-विकास-प्राधिकरणेन त्रिपुरातः दुबईं प्रति सर्षप-मधुनः प्रथम-निर्यातस्य सुविधा प्रदत्ता।
वाणिज्य-उद्योग-मन्त्रालयेन सोमवासरे प्रकाशिते निवेदने उक्तं यत् एपीडया त्रिपुरायाः डेरगाङ्ग-कृषक-उत्पादक-सङ्गठनेन उत्पादितस्य एकस्य मेट्रिक-टन-मितस्य सर्षप-मधुनः दुबईं प्रति प्रथमवारं निर्यातस्य सुविधा प्रदत्ता। अयं निर्यातः एफपीओ-सङ्घटनस्य तथा सम्पूर्णस्य क्षेत्रस्य कृते नूतना उपलब्धिः अस्ति, यतः अनेन स्थानीय-मधुमक्षिका-पालकेभ्यः कृषकेभ्यश्च सुव्यवस्थित-निर्यातोन्मुख-उत्पादनस्य माध्यमेन अन्तर्राष्ट्रीय-विपण्येषु प्रवेशस्य अवसरः सृष्टः।
मन्त्रालयेन उक्तं यत् निर्यातस्य एषः प्रेषणसमूहः त्रिपुरा-सर्वकारस्य कृषिमन्त्री रतनलाल-नाथ-महोदयेन प्रेषितः। अस्मिन् अवसरे त्रिपुरा-सर्वकारस्य कृषि-उद्यानिकी-विभागस्य सचिवः अपूर्व-रायः, आईएएस्, आईएफओएएम्-ऑर्गेनिक्स-एशिया-संस्थायाः कार्यकारी-निदेशिका जेनिफर-चाङ्ग:, एपीडायाः वरिष्ठा-धिकारिणः, निर्यातकस्य प्रतिनिधयः, रसद्-सहयोगिनः तथा क्षेत्रस्य प्रगतिशीलाः मधुमक्षिका-पालकाः उपस्थिताः आसन्।
मन्त्रालयेन सूचितं यत् अयं प्रेषणसमूहः अस्मात् क्षेत्रात् सर्षप-मधुनः प्रथमः निर्यातः अस्ति। अनेन त्रिपुरायाः मधु-मूल्य-शृङ्खलायां विविधीकरणस्य नूतनाः अवसराः अपि उद्घाटिताः भविष्यन्ति। अनेन पदक्षेपेण राज्यस्य कृषकाणाम् आयः वर्धिष्यते तथा वैश्विक-विपण्ये त्रिपुरायाः प्राकृतिक-उत्पादानां परिचयः सुदृढः भविष्यति। अस्य प्रयत्नस्य माध्यमेन स्थानीय-कृषकाः एफपीओ-सङ्घटनानि च निर्यात-अवसरान् अन्वेष्टुं तथा अन्ताराष्ट्रिय-कृषि-विपण्येषु स्वीयां सहभागितां सुदृढीकर्तुं प्रोत्साहनं प्राप्स्यन्ति इति अपेक्षा अस्ति।
Hindusthan Samachar / Divya Ranjan