Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 10 अगस्तमासः (हि.स.)।
हरिद्वारे निरन्तरं प्रवर्तमानायां मूसलधारावृष्टौ जनपदप्रशासनेन डाककांवडयात्रां प्रति सुरक्षाव्यवस्थाः अधिकं सुदृढीकृताः। जिलाधिकारी मयूरदीक्षितः गङ्गाघाटेषु विशेषसतर्कतां पालनीयाम् इति निर्देशान् दत्त्वा डाककांवडयात्रिभ्यः श्रद्धालुभ्यश्च तीव्रप्रवाहयुक्तेभ्यः क्षेत्रेभ्यः दूरं स्थातुं तथा मौसमपरिस्थितिं दृष्ट्वा सावधानतां वर्तितुम् आग्रहं कृतवान्।
जिलाधिकारी अवदत् यत् अतिवृष्टेः कारणेन गङ्गायाः जलस्तरस्य वृद्धिं तीव्रप्रवाहस्य च स्थितिं दृष्ट्वा श्रद्धालूनां सुरक्षा प्रशासनेन सर्वोच्चप्राथमिकतारूपेण स्वीकृता अस्ति। तेन गङ्गाघाटेषु नियुक्तेभ्यः आरक्षिभ्यः सुरक्षाबलेभ्यश्च सतर्कतया स्थातुं तथा संवेदनशीलेषु घाटेषु जोखिमयुक्तेषु स्थलेषु च निरन्तरं निरीक्षणं कर्तुं निर्देशाः प्रदत्ताः।
तेन अधिकारिभ्यः कांवडयात्रामार्गेषु गङ्गाघाटेषु च जलस्तरस्य मौसमस्थितेः च निरन्तरं निरीक्षणं कर्तुं निर्दिष्टम्। सः अवदत् यत् अतिवृष्टिकाले कांवडयात्रिणः गङ्गायां स्नानं कर्तुं तीव्रप्रवाहयुक्तेषु स्थलेषु गन्तुं च परिहरेयुः। कस्मिंश्चित् स्थले संकटस्य स्थितिः वर्धते चेत् श्रद्धालूनां कांवडयात्रिणां च आवागमनं नियन्त्र्य तान् तत्कालं सुरक्षितस्थलेषु प्रापयितव्यम्।
जिलाधिकारी अतिवृष्टेः कारणेन नगरे ग्रामीणक्षेत्रेषु च जलप्लावनस्य स्थितिः उत्पद्यते चेत् तत्कालं जलनिर्गमनं सुनिश्चितं कर्तुं निर्देशान् दत्तवान्। सः अवदत् यत् जलप्लावनस्य सूचना प्राप्तमात्रे सम्बन्धिताः अधिकारिणः घटनास्थलं प्राप्नुयुः तथा आवश्यकतानुसारं जलोत्क्षेपकयन्त्राणां अन्येषां च साधनानां प्रयोगं कृत्वा जलनिर्गमनकार्यं प्रारभेरन्, येन सामान्यजनानां कांवडयात्रिणां च किमपि कष्टं न भवेत्।
तेन सर्वेभ्यः सम्बन्धितविभागेभ्यः परस्परसमन्वयेन सतर्कतया स्थातुं निर्देशाः प्रदत्ताः। वर्षाकारणेन जनपदे कस्यापि घटनायाः सूचना तत्कालं नियन्त्रणकक्षं प्रति दातुं निर्दिष्टम्, येन राहतकार्ये उद्धारकार्ये च विलम्बः न भवेत्।
जनपदप्रशासनस्य पक्षतः गङ्गाघाटेषु, कांवडयात्रामार्गेषु, संवेदनशीलेषु स्थलेषु च निरन्तरं निरीक्षणं क्रियमाणम् अस्ति। जिलाधिकारी श्रद्धालुभ्यः कांवडयात्रिभ्यश्च आग्रहं कृतवान् यत् मौसमस्य प्रतिकूले सति शीघ्रतां न कुर्युः, तीव्रप्रवाहयुक्तेभ्यः क्षेत्रेभ्यः दूरं तिष्ठन्तु तथा प्रशासनस्य आरक्षिबलस्य च निर्देशानां पालनं कुर्वन्तु।
---------------
Hindusthan Samachar / Dheeraj Maithani