Enter your Email Address to subscribe to our newsletters

‘हर-हर महादेव’ इति जयघोषेण मन्दिरपरिसरः प्रतिध्वनितः, सुरक्षा-व्यवस्था सुदृढा आसीत्
औरैया, १० अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य औरैया-जनपदे श्रावण-मासस्य द्वितीयसोमवासरे नगरात् प्रायः पञ्चकिलोमीटर दूरे बीहडप्रदेशस्य मध्ये स्थिते प्राचीनदेवकलीमन्दिरे श्रद्धालूनां महती सङ्ख्या समुपागता। प्रातःकालादेव भगवत: भोलेनाथस्य दर्शनाय जलाभिषेकाय च श्रद्धालूनाम् आगमनम् आरब्धम्। अल्पकालेनैव मन्दिरपरिसरे महिलाभक्तानां पुरुष-भक्तानां च दीर्घाः पङ्क्तयः अभवन्। श्रद्धालूनां मुखेभ्यः निर्गतेन ‘हर-हर महादेव’ तथा ‘बम-बम भोले’ इति जयघोषेण सम्पूर्णं देवकलीधाम शिवमयम् अभवत्।
दूरस्थेभ्यः प्रदेशेभ्यः समागताः श्रद्धालवः पङ्क्तिबद्धाः भूत्वा भगवत: शिवस्य जलाभिषेकम् अकुर्वन्। भक्ताः विधिविधानपूर्वकं पूजनार्चनं कृत्वा परिवारस्य सुखसमृद्धेः, शान्तेः मङ्गलस्य च कामनाम् अकुर्वन्। अनेके श्रद्धालवः गङ्गाजलं बिल्वपत्राणि अन्या: पूजनसामग्र्य: च नीत्वा मन्दिरम् आगतवन्तः। मन्दिरपरिसरे दर्शनव्यवस्थां सुव्यवस्थितां कर्तुं स्वयंसेवकाः अपि सेवाभावेन संलग्नाः आसन्।
श्रद्धालूनां महान्तं सम्मर्दं दृष्ट्वा प्रशासनस्य आरक्षकबलस्य च पक्षतः सुरक्षायाः सुदृढाः प्रबन्धाः कृताः आसन्। मन्दिरपरिसरस्य अन्तः बहिश्च आरक्षकबलं नियोजितम् आसीत्। आरक्षकाः जनसमूहस्य नियन्त्रणेन सह श्रद्धालूनां सुव्यवस्थित-रूपेण दर्शनं कारयितुं संलग्नाः आसन्। जनपदाधिकारी बृजेशकुमारः तथा आरक्षकाधीक्षकः अभिषेकभारती च पूर्वं देवकलीमन्दिरस्य निरीक्षणं कृत्वा सुरक्षाव्यवस्थां श्रद्धालूनां सुविधां च दृष्ट्वा सम्बन्धिताधिकारिभ्यः आवश्यकान् निर्देशान् दत्तवन्तौ। मन्दिरपरिसरे स्थापितैः सीसीटीवी-कैमरा-माध्यमैः अपि सर्वेषु क्रियाकलापेषु सततं निरीक्षणं कृतम्।
Hindusthan Samachar / Divya Ranjan