न खिद्यतां, कारयिष्यते प्रत्येकं समस्यायाः समाधानम् : याेगी आदित्यनाथः
गोरखपुरम्, 10 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः रविवासरे सायंकाले गोरखपुरम् आगतवान्। गोरखनाथमन्दिरे रात्रिनिवासं कृत्वा सोमवासरे प्रातः जनतादर्शने जनैः सह मिलित्वा तेषां समस्याः अशृणोत्। समस्यां गृहीत्वा आगतेभ्यः सर्व
गोरखपुर में जनता दर्शन करते माननीय मुख्यमंत्री योगी आदित्यनाथ जी


गोरखपुर में जनता दर्शन करते माननीय मुख्यमंत्री योगी आदित्यनाथ जी


गोरखपुर में जनता दर्शन करते माननीय मुख्यमंत्री योगी आदित्यनाथ जी


गोरखपुर में जनता दर्शन करते माननीय मुख्यमंत्री योगी आदित्यनाथ जी


गोरखपुरम्, 10 अगस्तमासः (हि.स.)।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः रविवासरे सायंकाले गोरखपुरम् आगतवान्। गोरखनाथमन्दिरे रात्रिनिवासं कृत्वा सोमवासरे प्रातः जनतादर्शने जनैः सह मिलित्वा तेषां समस्याः अशृणोत्। समस्यां गृहीत्वा आगतेभ्यः सर्वेभ्यः जनभ्यः सः ध्यानपूर्वकं तेषां वार्तां श्रुतवान्। तेषां प्रार्थनापत्राणि स्वीकृत्य आत्मीयभावेन अवदत्, ‘मा चिन्तयतु, भवतः समस्यायाः समाधानं नूनं कारयिष्यते।’ जनतादर्शने मुख्यमन्त्री समीपस्थेभ्यः अधिकारिभ्यः निर्देशं दत्तवान् यत् प्रत्येकस्य पीडितस्य समस्यायां संवेदनशीलतया ध्यानं दत्त्वा तस्याः शीघ्रं, गुणवत्तापूर्णं पारदर्शकं च निराकरणं कारयन्तु।

सोमवासरे प्रातः गोरखनाथमन्दिरपरिसरे महन्तदिग्विजयनाथस्मृतिभवनस्य पुरतः आयोजिते जनतादर्शने मुख्यमन्त्री प्रायः द्विशतं जनानां समस्याः अशृणोत् तथा च अधिकारिभ्यः तासां समाधानस्य निर्देशं दत्तवान्। आसन्देषु उपविष्टानां जनानां समीपं मुख्यमन्त्री स्वयमेव गत्वा आत्मीयभावेन ‘कुतः आगताः, का समस्या अस्ति’ इति पृष्ट्वा एकैकस्य समस्यां श्रुतवान्। सः सर्वेषां समस्यासु समाधानं सुनिश्चितं करिष्यतीति विश्वासं दत्तवान्। कस्यापि जनस्य चिन्तितुं वा भयभीतस्य भवितुं आवश्यकता नास्तीति सः अवदत्। प्रार्थनापत्राणि अधिकारिभ्यः समर्पयन् सः निर्देशं दत्तवान् यत् प्रत्येकस्य समस्यायाः निस्तारणं समयबद्धं, गुणवत्तापूर्णं तथा सन्तोषजनकं च भवितव्यम्। केषाञ्चित् जनानां भूम्यधिक्रमणसम्बन्धिन्यां शिकायत् सः कठोरविधिककार्यवाही कर्तुं निर्देशं दत्तवान्।

गम्भीररोगेषु चिकित्सायै पर्याप्तां आर्थिकसहायतां दास्यति सरकार

जनतादर्शने बहवः जनाः गम्भीररोगाणां चिकित्सायै आर्थिकसहायतायाः अनुरोधं कृत्वा आगतवन्तः। मुख्यमन्त्री तेषां विश्वासं वर्धयन् अवदत् यत् चिकित्सायां धनाभावः बाधकः न भविष्यति। सर्वकारः पर्याप्ताम् आर्थिकसहायतां प्रदास्यति। सः अधिकारिभ्यः निर्देशं दत्तवान् यत् चिकित्सालयस्य व्ययअनुमानस्य प्रक्रिया शीघ्रं पूर्णीकृत्य शासनाय प्रेषयन्तु। मुख्यमन्त्रिविवेकाधीनकोषात् चिकित्सायै धनराशिः प्रदास्यते।

मन्दिरस्य गोशालायां मुख्यमन्त्री योगी अकरोत् गोसेवाम्

गोरखनाथमन्दिरे प्रवाससमये सोमवासरे प्रातः मुख्यमन्त्रिणः दिनचर्या परम्परानुसारमेव आसीत्। शिवावतारस्य गुरुगोरखनाथस्य दर्शनं पूजनं च कृत्वा तथा स्वगुरुदेवस्य ब्रह्मलीनमहन्तअवैद्यनाथस्य प्रतिमायाः पुरतः शिरः नत्वा सः मन्दिरपरिसरस्य भ्रमणाय निर्गतवान्। ततः सः मन्दिरस्य गोशालां गत्वा गोसेवाम् अकरोत्। गोशालायां योगी गोवंशं स्नेहेन आलिङ्ग्य तान् स्वहस्तैः गुडं भोजितवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani