Enter your Email Address to subscribe to our newsletters

मुख्यमंत्रिणो योगिनः कांवड़िभ्योऽकरोत् आह्वानम् - कांवड़यात्रायाः सामाजिक उत्तरदायित्वस्य सेवायाः च उत्सवःसमाचरितः
लखनऊ, 10 अगस्तमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्रिणा योगिना आदित्यनाथेन श्रावणमासस्य अवसरे प्रदेशवासिनां नाम पत्रं लिखितम्। तेन पत्रे लिखितं यत् श्रावणमासे निर्गच्छती कावडयात्रा एका अनुपमा परम्परा अस्ति, या प्रतिवर्षं कोटिशः श्रद्धालून् शिवभक्तेः सूत्रेण संयोजयति।
मुख्यमन्त्रिणा लिखितं यत् हे मम सम्मानिताः प्रदेशवासिनः, भारतीयपरम्परासु कतिपयाः यात्राः केवलं धार्मिकानुष्ठानानि न भवन्ति, अपि तु ताः समाजस्य, संस्कृतेः, अनुशासनस्य, लोकजीवनस्य च जीवन्त्यः पाठशालाः अपि भवन्ति। श्रावणमासे निर्गच्छती कावडयात्रा तादृशी एव एका अनुपमा परम्परा अस्ति, या प्रतिवर्षं कोटिशः श्रद्धालून् शिवभक्तेः सूत्रेण संयोजयति।
योगिना उक्तं यत् प्रत्येकस्य शिवभक्तस्य यात्रा सम्मानपूर्वकं सम्पन्ना भवेत्, एतदर्थं प्रदेशसर्वकारः दृढसंकल्पितः अस्ति। सुव्यवस्थितैः शिविरैः, शुद्धपेयजलेन, चिकित्सकीयसहायतया, शौचालयैः, प्रकाशव्यवस्थया, प्रभाविणा यातायातप्रबन्धनेन तथा नियन्त्रणकक्षेण सततनिरीक्षणस्य माध्यमेन यात्रा सुचारुरूपेण व्यवस्थिता कृता अस्ति।
तेन कावडधारिभ्यः आग्रहं कुर्वता उक्तं यत् अहं भवद्भ्यः सर्वेभ्यः आग्रहं करोमि यत् कावडयात्रां सामाजिकउत्तरदायित्वस्य सेवायाश्च उत्सवरूपेण परिणमयन्तु। पर्यावरणानुकूलां कावडं स्वीकुर्वन्तु तथा प्लास्टिकमुक्तजीवनस्य संकल्पं कुर्वन्तु। यदि मार्गे रुग्णवाहिका अथवा विद्यालययानं गच्छति, तर्हि तस्मै प्राथमिकतां प्रददतु। अस्माकं अल्पा एव सजगता कस्यचित् कृते महती साहाय्यरूपा भवितुं शक्नोति।
--------------
Hindusthan Samachar / Dheeraj Maithani