Enter your Email Address to subscribe to our newsletters


बाराबङ्की, १० अगस्तमासः (हि.स.)। श्रावणमासस्य द्वितीयसोमवासरे प्रसिद्ध-तीर्थस्थले लोधेश्वरमहादेवे श्रद्धायाः महान् तरंग: दृष्ट:। प्रातःकालादेव मन्दिरपरिसरे श्रद्धालूनां कांवडधारिणां च दीर्घाः पङ्क्तयः अभवन्। दूरस्थेभ्यः प्रदेशेभ्यः समागताः शिवभक्ताः ‘हर-हर महादेव’ तथा ‘बम-बम भोले’ इति जयघोषाणां मध्ये भगवतः लोधेश्वर-महादेवस्य जलाभिषेकं पूजनञ्च अकुर्वन्। मन्दिरपरिसरं तदनुस्थितं क्षेत्रं च शिवमयम् अभवत्।
जलबहाकानां श्रद्धालूनां च आगमनक्रमः रविवासरस्य विलम्बितरात्रेः एव आरब्धः आसीत्। सोमवासरे प्रातः मन्दिरस्य कपाटा: उद्घाटिता: ततः श्रद्धालवः पङ्क्तिबद्धाः भूत्वा बाबामहादेवस्य दर्शनम् अकुर्वन्। बहुसङ्ख्याकाः कांवडधारिणः पवित्रनदीभ्यः जलं नीत्वा लोधेश्वरं प्राप्तवन्तः तथा विधिविधानपूर्वकं महादेवस्य अभिषेकम् अकुर्वन्। सुरक्षां दृष्ट्वा प्रशासनस्य पक्षतः मन्दिरपरिसरात् कांवडमार्गं यावत् व्यापकाः व्यवस्थाः कृताः आसन्।
श्रद्धालूनां महतीं सङ्ख्यां दृष्ट्वा पुलिस-प्रशासनिकाधिकारिभिः व्यवस्थायाः निरन्तरं निरीक्षणं कृतम्। जनपदाधिकारी ईशानप्रतापसिंहः तथा आरक्षकाधिक्षकः अर्पितविजयवर्गीयः संयुक्तरूपेण लोधेश्वर-महादेवमन्दिरं प्राप्य द्वितीयसोमवासरस्य सुरक्षाव्यवस्थायाः निरीक्षणं कृतवन्तौ। अधिकारिभिः मन्दिरपरिसरस्य, कांवड-धारिणां आवागमनमार्गस्य, वाहन-स्थानकस्य, आरक्षक-पिकेट इत्यस्य, निरीक्षणव्यवस्थायाश्च निरीक्षणं कृतम्।
अधिकारिभिः कांवडयात्रायाः समये श्रद्धालूनां सुविधा सुरक्षा च प्राथमिकतया स्थापयितुं निर्देशाः दत्ताः। तदनन्तरं वाहनानां मार्गपरिवर्तनव्यवस्थां प्रभावी-रूपेण कार्यान्वयितुं तथा प्रमुखस्थानेषु आरक्षकबलस्य नियुक्तिं सुनिश्चितं कर्तुं च उक्तम्। जनसम्मर्दस्य मध्ये कस्यापि प्रकारस्य अव्यवस्था न भवेत् इत्यर्थं आरक्षककर्मचारिभिः निरन्तरं निरीक्षणं कृतम्।
श्रावणमासस्य द्वितीयसोमवासरे लोधेश्वर-धाम्नि समुपस्थितेन श्रद्धालूनां जनसम्मर्देन पुनरेकवारं तत्रत्यायाः धार्मिकश्रद्धायाः महादेवं प्रति भक्तानां दृढभक्तेः च प्रदर्शनम् अभवत्। दिवसस्य प्रगत्या सह मन्दिरपरिसरे श्रद्धालूनां सङ्ख्या निरन्तरं वर्धमाना आसीत् तथा सम्पूर्णं महादेवाक्षेत्रं ‘हर-हर महादेव’ इति जयघोषेण प्रतिध्वनितम् अभवत्। बुढ़वल-रेलस्थानकपरिसरेऽपि आरपीएफ-प्रभारी रविकुमारः, जीआरपी-प्रभारी दुर्गेश-कुमारश्च सक्रियौ आस्ताम्। सुरक्षा-कर्मचारिणः रेलस्थानके समागतानां श्रद्धालूनां रेलयानेषु आरोहणे अवरोहणे च साहाय्यं कुर्वन्तः दृष्टाः।
हिन्दुस्थान समाचार / Divya Ranjan