बालेषु पूरिताः देशभक्तेः वर्णाः, हर घर तिरंगा इत्यस्मिन् अभियाने जाता चित्रकला प्रतियोगिता
फर्रुखाबादम्, 10 अगस्तमासः(हि. स .)।फर्रुखाबादस्य आधारभूतशिक्षाविभागस्य पक्षतः ‘हर घर तिरंगा’ इत्यभियानस्य अन्तर्गतं सोमवासरे रहमानी गर्ल्स इण्टर कॉलेज, फर्रुखाबादे तथा मण्डीपरिसरे अर्रापहाड़पुरे च बाढपीडितबालकानां कृते चित्रकलाप्रतियोगितायाः आयोजन
प्रतियोगिता में भाग ले रहे बच्चे


फर्रुखाबादम्, 10 अगस्तमासः(हि. स .)।फर्रुखाबादस्य आधारभूतशिक्षाविभागस्य पक्षतः ‘हर घर तिरंगा’ इत्यभियानस्य अन्तर्गतं सोमवासरे रहमानी गर्ल्स इण्टर कॉलेज, फर्रुखाबादे तथा मण्डीपरिसरे अर्रापहाड़पुरे च बाढपीडितबालकानां कृते चित्रकलाप्रतियोगितायाः आयोजनं कृतम्।

बाढ्याः विषमपरिस्थितीनां विविधचुनौतीनां च सत्त्वेऽपि बालकाः पूर्णोत्साहेन हर्षोल्लासेन च प्रतियोगितायां वर्धमानरूपेण सहभागितां कृतवन्तः। बालकैः स्वकीयकल्पनाशीलतया सृजनात्मकप्रतिभया च तिरङ्गध्वजस्य, राष्ट्रप्रेम्णः, देशभक्तेः च सम्बन्धितानि मनोहराणि चित्राणि निर्मितानि।

प्रतियोगितायाः माध्यमेन बालकेषु राष्ट्रियभावनायाः, सृजनात्मकाभिव्यक्तेः, सकारात्मकचिन्तनस्य च प्रोत्साहनं कृतम्।

कार्यक्रमे नगरस्य खण्डशिक्षाधिकारी आई०पी०सिंहः तथा सदरस्य नायबतहसीलदारः उपस्थितौ आस्ताम्। अधिकारिभ्यां बालकानाम् उत्साहवर्धनं कुर्वद्भ्यां तेषां प्रतिभायाः प्रशंसा कृता।

--------------

Hindusthan Samachar / Dheeraj Maithani