Enter your Email Address to subscribe to our newsletters



जिलाधिकारी संमर्दे श्री काशी विश्वनाथ मंदिर परिसरस्य पार्श्वे भ्रमित्वा व्यवस्था परीक्षिता
वाराणसी,10 अगस्तमासः (हि.स.)। श्रावणमासस्य द्वितीयसोमवासरे प्रथमसोमवासरस्य तुलनायां श्रीकाशीविश्वनाथमन्दिरे दर्शनपूजनाय अधिकसंख्याकानां श्रद्धालूनाम् आगमनं भवति। मन्दिरे मङ्गलारत्याः अनन्तरात् पूर्वाह्णे १० वादनपर्यन्तं द्विलक्षपञ्चषष्टिसहस्राधिकाः श्रद्धालवः दर्शनपूजनं कृतवन्तः। तदनन्तरमपि लक्षशः श्रद्धालूनाम् अनवरतमागमनं दृष्ट्वा जिलाप्रशासनं सतर्कमस्ति। व्यवस्थायाः परीक्षणेन सह गोदौलियादशाश्वमेधक्षेत्रयोः स्वयं जिलाधिकारी सत्येन्द्रकुमारः व्यवस्थायाः संचालनस्य दायित्वं वहन् स्थितवान्।
जिलाधिकारी मन्दिरम् आगच्छतां श्रद्धालूनां कावडियानां च मन्दिरपरिसरे दर्शनपूजनस्य व्यवस्थाः, श्रद्धालूनां सुविधा, स्वच्छता, सुरक्षा तथा अन्यव्यवस्थाः निरीक्षितवान् तथा सम्बन्धिताधिकारिभ्यः आवश्यकनिर्देशान् प्रदत्तवान्। निरीक्षणकाले जिलाधिकारी बाबा विश्वनाथस्य दर्शनपूजनाय आगतेभ्यः शिवभक्तेभ्यः श्रद्धालुभ्यश्च सम्भाषणं कृत्वा तेषां सुविधानां व्यवस्थायाश्च विषये सूचनां प्राप्तवान्।
श्रद्धालुभ्यः दर्शनसमये कस्यापि प्रकारस्य कठिनता, पेयजलव्यवस्था, स्वच्छता, आवागमनम् अन्यव्यवस्थाश्च विषये प्रतिक्रियाः प्राप्ताः। जिलाधिकारी अधिकारिभ्यः निर्देशितवान् यत् मन्दिरपरिसरे तदनुसंलग्नेषु च क्षेत्रेषु स्वच्छताव्यवस्था निरन्तरं सुदृढा स्थापनीया तथा श्रद्धालुभ्यः सुगमं सुव्यवस्थितं च दर्शनं प्रदातव्यम्। जनसमूहस्य परिस्थितिं दृष्ट्वा आवश्यकव्यवस्थाः प्रभावीरूपेण सुनिश्चिताः करणीयाः इति निर्देशोऽपि प्रदत्तः।
तदतिरिक्तं नियन्त्रणकक्षे उपविश्य सीसीटीवी-कैमरेषु निगराणीं कृत्वा सर्वेषां श्रद्धालूनां सुरक्षाव्यवस्थायाः अपि परीक्षणं कृतवान्। सः अवदत् यत् बाबा विश्वनाथस्य दर्शनाय देशविदेशेभ्यः आगच्छतां श्रद्धालूनां कृते उत्तमसुविधानां प्रदायनं प्रशासनस्य प्राथमिकता अस्ति। श्रद्धालूनां सुविधा सुरक्षां च ध्यानं कृत्वा सर्वे सम्बन्धितविभागाः परस्परसमन्वयेन कार्यं कुर्वन्तु।
अस्मिन् अवसरे जिलाधिकारी समस्तेभ्यः श्रद्धालुभ्यः प्रदेशवासिभ्यश्च श्रावणमासस्य द्वितीयसोमवासरस्य हार्दिकशुभकामनाः प्रदत्तवान्। सः अवदत् यत् भगवान् शिवस्य कृपा सर्वेषु निरन्तरं भवतु तथा सर्वेषां जीवने सुखं, शान्तिः, समृद्धिः, उत्तमस्वास्थ्यं च प्रवर्धताम्।
अपरतः मन्दिरे निरन्तरं वर्धमानां श्रद्धालूनां संमर्दं दृष्ट्वा श्रीकाशीविश्वनाथमन्दिरप्रशासनेन द्वितीयसोमवासरे सप्तद्वाराणां स्थाने षड्द्वारेभ्य एव श्रद्धालूनां प्रवेशस्य निर्देशः प्रदत्तः अस्ति। शिवभक्तेभ्यः धामस्य गङ्गाभैरवद्वारस्य दिशः दर्शनपूजनाय प्रवेशस्य अनुमतिः न प्रदत्ता। गङ्गायाः जलस्तरस्य वृद्धेः कारणेन सुरक्षादृष्ट्या गङ्गाद्वारं पिहितं कृतम् अस्ति।---------------
Hindusthan Samachar / Dheeraj Maithani