Enter your Email Address to subscribe to our newsletters


वाराणसी, 10 अगस्तमासः (हि.स.)।श्रावणमासस्य द्वितीयसोमवासरे उत्तरप्रदेशस्य धार्मिकनगरी काश्यां वाराणस्यां चतुर्दिक्षु कणकणे शङ्करस्य भावः दृश्यते। केसरियवर्णेन रञ्जिता शिवनगरी श्रीकाशीविश्वनाथस्य सुवर्णमण्डिते दिव्ये दरबारे सम्पूर्णश्रद्धाभावेन पावनज्योतिर्लिङ्गे अखण्डजलधारा प्रवहति। श्रावणस्य द्वितीयसोमवासरे सोमप्रदोषव्रतं, बुधादित्यराजयोगः, वज्रयोगः, सिद्धियोगः इत्यादीनां सप्तदुर्लभशुभसंयोगानां मध्ये शिवभक्ताः बाबाविश्वनाथस्य झाँकीदर्शनं जलाभिषेकं च कृत्वा परमानन्दम् अनुभवन्ति। सम्पूर्णं धामपरिसरं श्रद्धालूनां हर हर महादेव, काशीविश्वनाथ शम्भो इत्यादिभिः गगनभेदीभिः कालजयीभिः जयघोषैः गुंजायमानम् अस्ति।
द्वितीयसोमवासरे परम्परानुसारं सायंकाले मन्दिरस्य गर्भगृहे बाबाविश्वनाथस्य गौरीशङ्करस्य, अर्थात् शिवपार्वत्योः, विशेषशृङ्गारः भविष्यति। तस्मात् पूर्वमेव दरबारे दर्शनपूजनार्थं लक्षशः शिवभक्ताः रविवासरस्य सायंकालादेव बैरिकेड् व्यवस्थायां पङ्क्तिबद्धाः अभवन्। प्रातःकाले मन्दिरस्य गर्भगृहे मङ्गलारत्याः अनन्तरं मन्दिरस्य कपाटे उद्घाटिते सति मन्दिरन्यासस्य मुख्यकार्यपालकाधिकारी डॉ. विश्वभूषणमिश्रस्य नेतृत्वे अधिकारिभिः पङ्क्तिबद्धेषु श्रद्धालुषु गुलाबपुष्पदलानि वृष्टिरूपेण क्षिप्तानि। आदरेण आह्लादिताः शिवभक्ताः रक्तवर्णीयवस्त्रपट्टिकायां अर्थात् रेडकार्पेट् मार्गेण गत्वा बाबाविश्वनाथस्य पूजनार्थं दरबारे प्रविशन्ति। एषः क्रमः सम्पूर्णदिवसं रात्रेः विलम्बपर्यन्तं निरन्तरं प्रवर्तिष्यते।
मन्दिरन्यासस्य अनुसारं द्वितीयसोमवासरे दरबारे श्रद्धायाः भक्तेः उल्लासस्य च वातावरणं वर्तते। दरबारे ज्योतिर्लिङ्गे बहिः स्थापितेन पात्रेण जलाभिषेकं कृत्वा आह्लादिताः श्रद्धालवः बाबाविश्वनाथस्य झाँकीदर्शनानन्तरं काशीविश्वनाथधामस्य भव्यं नूतनं विस्तारितं च स्वरूपं दृष्ट्वा मुक्तकण्ठेन तस्य प्रशंसां कुर्वन्ति। मन्दिरे श्रद्धालूनां सुविधार्थं जिलाप्रशासनेन मन्दिरप्रबन्धनेन च चिकित्सकाः, रुग्णवाहिकाः, एनडीआरएफ-दलस्य सदस्याश्च नियुक्ताः सन्ति। पेयजलव्यवस्थायाः अतिरिक्तं लब्धालब्धवस्तुकेन्द्रं सार्वजनिकघोषणाप्रणाली च स्थापिते स्तः। मन्दिरे गर्भगृहस्य पूर्वमेव श्रद्धालवः एलईडी-पर्दे श्रीकाशीविश्वनाथस्य दर्शनं कुर्वन्ति।
बाबाविश्वनाथस्य दरबारम् आगच्छतां श्रद्धालूनां पङ्क्तिः एकस्मिन् पार्श्वे गोदौलियातः बाबादरबारपर्यन्तं, अपरस्मिन् पार्श्वे गङ्गातः बाबादरबारपर्यन्तं विस्तृता आसीत्। शिवमय्यां काशीनगर्यां गङ्गाघाटात् बाबादरबारपर्यन्तं श्रद्धा भक्तिश्च एकरूपतया दृश्येते। केसरियवस्त्रधारिणां बाबाभक्तानां कावडियानां उत्साहः विशेषतया दर्शनीयः अस्ति।
धाम्नः मन्दिरपरिसरस्य च बहिरपि पुलिसाधिकारिणः सुरक्षाव्यवस्थां सुदृढां कर्तुं निरन्तरं भ्रमणं कुर्वन्ति। द्वितीयसोमवासरे मैदागिनतः गोदौलियापर्यन्तं, ततः सोनारपुराचतुष्पथपर्यन्तं, गुरुबागतः रामापुरापर्यन्तं बेनियाबागतिराहपर्यन्तं, ब्राडवे-तिराहतः सोनारपुरामार्गेण गोदौलियापर्यन्तं तथा भेलूपुरतः रामापुराचतुष्पथपर्यन्तं सर्वेषां वाहनानां प्रवेशः प्रतिबन्धितः कृतः अस्ति। केवलं पदयात्रायै मार्गः अनुमतः अस्ति।
द्वितीयसोमवासरे दरबारस्य बहिः मार्गेषु पङ्क्तिबद्धानां कावडियानां शिवभक्तानां च सेवायै सामाजिकसङ्गठनैः, नागरिकसुरक्षासङ्गठनेन सह समाजवादीपक्षस्य भारतीयजनतापक्षस्य च कार्यकर्तृभिः स्थाने स्थाने सेवाशिबिराणि स्थापितानि सन्ति।
नगरस्य अन्येषु प्रमुखेषु शिवालयेषु ओंकारेश्वरमहादेवः, महामृत्युञ्जयः, शूलटङ्केश्वरमहादेवः, तिलभाण्डेश्वरमहादेवः, गौरीकेदारेश्वरः, त्रिलोचनमहादेवः, रामेश्वरमहादेवः, कर्मदेश्वरमहादेवः, सारङ्गनाथः, गौतमेश्वरमहादेवः, जागेश्वरमहादेवः इत्यादिषु सर्वेषु लघुमहत्त्वपूर्णेषु शिवालयेषु जलाभिषेकाय श्रद्धालूनां सागर इव जनसमुदायः उमड़ति।
गङ्गायाः जलस्तरस्य वृद्धिं दृष्ट्वा दशाश्वमेधघाटे अतिरिक्तसावधानी वर्तते। दशाश्वमेधघाटसहितेषु सर्वेषु प्रमुखेषु गङ्गाघाटेषु गन्तुं मार्गेषु पुलिसदलानि सज्जानि सन्ति। श्रद्धालून् ध्वनिविस्तारकयन्त्रेण सावधानं क्रियते यत् ते गङ्गायां स्नानसमये विशेषतया सतर्काः भवन्तु। नौकाविहारः पूर्णतया प्रतिबन्धितः अस्ति। गङ्गायां जलपुलिसदलस्य एनडीआरएफस्य एकादशवाहिन्याः च जवानाः निरन्तरं गश्तं कुर्वन्ति।
अस्यैव क्रमे चौबेपुर-कैथीस्थे मार्कण्डेयमहादेवधामे श्रावणमासस्य द्वितीयसोमवासरे जलाभिषेकाय श्रद्धालूनां अखण्डा पङ्क्तिः दृश्यते। रविवासरस्य सायंकालादेव श्रद्धालवः दरबारे आगत्य स्थिताः आसन्। श्रद्धालूनां सुरक्षायै सुगमदर्शनाय च जिलाप्रशासनेन स्थाने स्थाने बैरिकेड्-व्यवस्था कृता अस्ति। धामतः त्रिकिलोमीटरपूर्वं कैथीतिराहे एव सर्वप्रकाराणि वाहनानि निरुध्यन्ते। श्रद्धालवः गङ्गा-गोमतीनद्योः सङ्गमे स्नानं कृत्वा मार्कण्डेयमहादेवधामे दर्शनपूजनं जलाभिषेकं च कर्तुं समागच्छन्ति।
Hindusthan Samachar / Dheeraj Maithani