श्रावणस्य सोमवासरे केदारनाथ धाम्नि उत्पन्नः आस्थासम्मर्दः, 14.45 लक्षं श्रद्धालवोऽकुर्वन् दर्शनम्
रुद्रप्रयागः, 10 अगस्तमासः (हि. स.)।श्रावणमासस्य सोमवासरस्य पावनावसरे केदारनाथधामे बाबा केदारस्य दर्शनार्थं श्रद्धालूनां विशालः जनसमूहः समागतः। प्रातःकालादेव देशस्य विभिन्नेभ्यः भागेभ्यः बहुसंख्याकाः श्रद्धालवः धामं प्रति आगच्छन्तः आसन्। अधुना पर्य
केदारनाथ धाम।


रुद्रप्रयागः, 10 अगस्तमासः (हि. स.)।श्रावणमासस्य सोमवासरस्य पावनावसरे केदारनाथधामे बाबा केदारस्य दर्शनार्थं श्रद्धालूनां विशालः जनसमूहः समागतः। प्रातःकालादेव देशस्य विभिन्नेभ्यः भागेभ्यः बहुसंख्याकाः श्रद्धालवः धामं प्रति आगच्छन्तः आसन्। अधुना पर्यन्तं केदारनाथधामे १४,४५,९४६ श्रद्धालवः बाबा केदारस्य दर्शनं कृतवन्तः।

श्रावणमासस्य सोमवासरे केदारनाथधामं बाबा केदारस्य जयघोषैः गुंजितम् अभवत्। श्रद्धालवः बाबा केदारस्य दर्शनं कृत्वा सुखसमृद्धेः परिवारस्य च कल्याणस्य कामनां कृतवन्तः। मन्दिरपरिसरे यात्रामार्गे च भक्तिमयः वातावरणः निर्मितः आसीत्।

जिलाधिकारी विशालमिश्रस्य मार्गदर्शने केदारनाथयात्रां सुगमां सुरक्षितां च कर्तुं जिलाप्रशासनेन व्यापकव्यवस्थाः कृताः सन्ति। धामे श्रद्धालूनां निवासस्य, भोजनस्य, पेयजलस्य, स्वास्थ्यस्य, स्वच्छतायाः च अन्यासां आवश्यकसुविधानां विशेषतया व्यवस्था क्रियते।

प्रशासनस्य विभिन्नाः दलाः निरन्तरं व्यवस्थाः निरीक्षन्ते। श्रद्धालूनां कस्यापि प्रकारस्य असुविधा न भवेत् इत्यर्थं सम्बन्धितविभागानां अधिकारिणः कर्मचारीणश्च स्थलेषु नियुक्ताः सन्ति।

श्रावणमासस्य सोमवासरे समागतस्य विशालस्य जनसमूहस्य मध्ये प्रशासनस्य सम्पूर्णं ध्यानं यात्रां सुरक्षितां सुव्यवस्थितां सुगमां च स्थापयितुं केन्द्रितम् आसीत्। बाबा केदारस्य जयघोषाणां मध्ये श्रद्धालवः श्रद्धाभक्तिपूर्वकं भगवान् शिवस्य आशीर्वादं प्राप्तवन्तः।

-------------

Hindusthan Samachar / Dheeraj Maithani