Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 10 अगस्तमासः (हि.स.)।संस्कारभारती हरिद्वारमहानगरैककेन खेलसांस्कृतिकमहासंघस्य सहयोगेन भेलस्थिते सरस्वतीविद्यामन्दिरे नटराजपूजनं कलागुरुजनसम्मानसमारोहश्च आयोजितः।
कार्यक्रमस्य मुख्यातिथिः रानीपुरविधानसभाक्षेत्रस्य विधायकः आदेश चौहानः अवदत् यत् गुरुशिष्यपरम्परा भारतीयसंस्कृतेः आधारशिला अस्ति। स्वदेशस्य संस्कृतेः परम्पराणां च संरक्षणं, संवर्धनं, सम्माननं तथा तन्मूल्यानां संरक्षणं च अस्माकं सर्वेषां प्रथमं कर्तव्यम् अस्ति, यतः सम्पूर्णे विश्वे अस्माकं परिचयः अद्यापि अस्माकं परम्पराभिः संस्कारैश्च एव भवति। सः अवदत् यत् संस्कारभारत्याः हरिद्वारमहानगरैका संस्कृतिक्षेत्रे, संस्कारक्षेत्रे, कलाक्षेत्रे साहित्य क्षेत्रे च प्रशंसनीयं कार्यं करोति।
विशिष्टातिथिः अध्यात्मचेतनासङ्घस्य संस्थापकः कथाव्यासश्च आचार्यः करुणेश मिश्रः अवदत् यत् अद्यतने काले अस्माभिः प्रगतेः अपेक्षया संस्काराणाम् अधिका आवश्यकता अस्ति। अस्माकं परम्पराः सर्वदा ज्येष्ठानां सम्मानं आदरं च कर्तुं शिक्षयन्ति स्म।
नटराजपूजनेन तथा डॉ. श्वेता सरणस्य ध्येयगीतेन कार्यक्रमस्य प्रारम्भः अभवत्। कविः अरुणकुमारपाठकः, शीना भटनागरः, श्वेता सरणः तथा निपुण जिन्दलः गीतानि प्रस्तुतवन्तः। सृष्टि बडोलायाः नृत्यप्रशिक्षणकेन्द्रस्य बालकलाकारैः ‘मङ्गलं गणेशम्’ तथा ‘शङ्कर अति प्रचण्ड’ इत्येतयोः नृत्यप्रस्तुतिः कृता। कथकनृत्याङ्गना देवश्रीचक्रवर्ती ‘अङ्गिकं भुवनं’ तथा वन्दिता ‘रुद्राष्टकम्’ इति नृत्यं प्रस्तुतवत्यौ। ताभिः प्रस्तुतैः नृत्यैः दर्शकानां प्रचुराः करतलध्वनयः प्राप्ताः।
संस्थया विविधासु कलाविधासु विशिष्टयोगदानाय तेजिन्दरसिंह कैन्थः, संगीता सक्सैना, स्वाति वर्मा, डॉ. मेनका त्रिपाठी, इन्दु सिंहः, सुनीता भाटी, प्रकाशचन्द्रपाण्डेयः, विष्णुप्रिया शर्मा, वन्दिता, करुणा चौहानः, एस. पी. मौर्यः, मनीष शर्मा तथा हर्ष जोशी इत्येतेभ्यः कलागुरुसम्मानेन सम्मानं प्रदत्तम्। सुमन पन्तः, संगीता राणा तथा ललित जिन्दलः संस्कृतिसेवासम्मानेन सम्मानिताः, वृन्दावाणी च विशेषसेवासम्मानेन सम्मानिता।
संस्कारभारत्याः प्रान्तमन्त्री राकेश मालवीयः हरिद्वारमहानगरैकायाः नूतनकार्यकारिण्याः घोषणां कृतवान्।
कार्यक्रमे राष्ट्रियस्वयंसेवकसङ्घस्य पदाधिकारी संजय पंवारः, विद्यालयस्य उपप्रधानाचार्यः प्रवीणकुमारः, रमेश उपाध्यायः, डॉ. गौरव गुप्तः, डॉ. नीता नय्यरः, रेखा सिंघलः, राजकुमारी राजेश्वरी, डॉ. अजय पाठकः, महेशचन्द्रकाला, सुभाष मलिकः, देवेन्द्रमिश्रः, पराग गुप्तः, सुभाष हँसः, वृन्दावाणी, निशा कश्यपः, सुषमा साहू, मीनाक्षी चावला, पुष्पलता हँसः, रीता अवस्थी, राकेश रोशनः, पवन राठौरः इत्यादयः अनेकाः कार्यकर्तारः गणमान्यजनाश्च उपस्थिताः आसन्।