भारतस्य सनातनसभ्यतायाः सांस्कृतिक-परम्परायाश्च प्रतीकः अस्ति भगवद्वर्णः - तरुण-विजयः
कोलकाता, १० अगस्तमासः (हि.स.)। लेखकः पूर्वभाजपा-सांसदश्च तरुण-विजयः भगवद्वर्णं ‘‘भारतस्य आत्मनः वर्णः’’ इति वर्णयन् अवदत् यत् अयं भारतस्य सनातनसभ्यतायाः सांस्कृतिक-परम्परायाश्च प्रतीकः अस्ति। सः अवदत् यत् शताब्देभ्यः भारतस्य विविधासु परम्परासु भगवद
वरिष्ठ लेखक एवं पत्रकार तरुण विजय द्वारा लिखित पुस्तक 'सैफ्राॅन सर्ज’ के विमोचन कार्यक्रम का आमंत्रण पत्र


कोलकाता, १० अगस्तमासः (हि.स.)। लेखकः पूर्वभाजपा-सांसदश्च तरुण-विजयः भगवद्वर्णं ‘‘भारतस्य आत्मनः वर्णः’’ इति वर्णयन् अवदत् यत् अयं भारतस्य सनातनसभ्यतायाः सांस्कृतिक-परम्परायाश्च प्रतीकः अस्ति। सः अवदत् यत् शताब्देभ्यः भारतस्य विविधासु परम्परासु भगवद्वर्णः श्रद्धया सम्मानदृष्ट्या च परिदृश्यते।

स्वकीयायाः ‘सैफ्रॉन-सर्ज’ इति पुस्तकस्य कोलकातानगरे विमोचनात् पूर्वं तरुण-विजयः भारतीय-हॉकी-दलस्य नूतनां भगवद्वर्णां क्रीडावेशभूषां प्रति जायमानायाः आलोचनायाः तीव्रं प्रत्युत्तरं दत्तवान्। सः अवदत् यत् भगवद्वर्णः भारतस्य सभ्यतामूल्येषु गभीररूपेण समाविष्टः अस्ति। सः अवदत्— ‘‘भगवद्वर्णः भारतस्य सभ्यतायाः वर्णः अस्ति। सनातनपरम्परया सह सिक्ख-जैन-बौद्धपरम्परासु अपि अनादिकालतः अयं श्रद्धया स्वीकृतः अस्ति।’’

आलोचकान् लक्ष्यीकृत्य सः अवदत्— ‘‘केवलं गजनवीस्य मूर्तिभञ्जक-मानसिकतया प्रभाविताः जनाः एव भगवद्वर्णं प्रति असहजताम् अनुभवितुं शक्नुवन्ति, एतत् स्पष्टम् अस्ति।’’

उल्लेखनीयं यत् ‘सैफ्रॉन-सर्ज’ इति पुस्तकस्य प्रस्तावना राष्ट्रिय-स्वयंसेवक-सङ्घस्य प्रमुखेन डॉ. मोहन-भागवतेन लिखिता अस्ति, यदा तु पुस्तकस्य भूमिका सङ्घस्य सरकार्यवाहेन दत्तात्रेय-होसबालेन लिखिता अस्ति। प्रधानमन्त्री-आर्थिक-सलाहकार-परिषदः सदस्येन इतिहासकारेण च सञ्जय-सान्यालेन, प्रसिद्धेन लेखकेन अमीश-त्रिपाठिना तथा सर्वोच्च-न्यायालयस्य वरिष्ठ-अधिवक्त्रा महेश-जेटमलानिना च पुस्तकस्य प्रशंसा कृता अस्ति।

पुस्तक-विमोचन-कार्यक्रमस्य संयोजकेन अरुण-प्रकाश-मल्लावतेन कथितं यत् पुस्तकस्य औपचारिकं विमोचनं ११ अगस्तदिनाङ्के कोलकातानगरे स्थिते भारतीय-सांस्कृतिक-सम्बन्ध-परिषदि भविष्यति। अस्मिन् अवसरे सङ्घस्य वरिष्ठाधिकारी भैयाजी-जोशी, पश्चिम-बङ्गालस्य मुख्यमन्त्री शुभेन्दु-अधिकारी तथा वित्तमन्त्री स्वपन-दासगुप्तश्च उपस्थिताः भविष्यन्ति। कार्यक्रमे मन्त्री अग्निमित्रा-पाल: तथा डॉ. श्यामा-प्रसाद-मुखर्जी इत्यस्य प्रपौत्री देवदत्ता-चक्रवर्ती अपि सम्मिलिते भविष्यतः।

Hindusthan Samachar / Divya Ranjan