गो संरक्षणाद् ग्रामेषु गमिष्यति अर्जनस्य नूतनमार्गः, 10 रुप्यकैः लीटरमितं क्रेतुं गोमूत्रम्
लखनऊ, 10 अगस्तमासः (हि.स.)। गोसंरक्षणं ग्रामीणार्थव्यवस्थया, महिलासशक्तीकरणेन जैविककृष्या च सम्बद्धयितुं नवीनोपक्रमः। उत्तरप्रदेशस्य योगिसर्वकारस्य परिकल्पनानुरूपं गोसंरक्षणं ग्रामीणार्थव्यवस्थया, महिलासशक्तीकरणेन तथा जैविककृष्या च सम्बद्धयितुं
गो सेवा आयोग के अध्यक्ष श्याम बिहारी गुप्ता


लखनऊ, 10 अगस्तमासः (हि.स.)।

गोसंरक्षणं ग्रामीणार्थव्यवस्थया, महिलासशक्तीकरणेन जैविककृष्या च सम्बद्धयितुं नवीनोपक्रमः।

उत्तरप्रदेशस्य योगिसर्वकारस्य परिकल्पनानुरूपं गोसंरक्षणं ग्रामीणार्थव्यवस्थया, महिलासशक्तीकरणेन तथा जैविककृष्या च सम्बद्धयितुं नवीनोपक्रमः प्रारब्धः अस्ति। बुलन्दशहरजनपदे कृषकउत्पादकसङ्गठनस्य (एफपीओ) माध्यमेन प्रायोगिकपरियोजनारूपेण गोमूत्रस्य क्रयणम् आरब्धम् अस्ति। कृषकेभ्यः पशुपालकेभ्यश्च प्रतिलिटरं दशरुप्यकाणां मूल्येन गोमूत्रं क्रियते। प्रायोगिकपरियोजनायाः सफलतायाः अनन्तरं एतत् प्रारूपं प्रदेशस्य अन्येषु भागेषु विस्तरयितुं सज्जता क्रियते। अनेन गोवंशपालकपरिवाराणां कृते दुग्धेन सह गोमूत्रादपि अतिरिक्तायाः आयस्य मार्गः प्रशस्तो भविष्यति।

बुलन्दशहरस्य स्याना-तहसीलान्तर्गते नरसैना-ग्रामे डॉ. प्रवीणस्य नेतृत्वे कृषकउत्पादकसङ्गठनस्य माध्यमेन प्रारब्धेन अस्मिन् प्रयोगे समीपस्थानां पञ्चदशग्रामाणां समावेशः कृतः अस्ति। एतेषु ग्रामेषु गोमूत्रसङ्ग्रहणाय स्थानीयस्तरे सङ्ग्रहणकेन्द्राणि स्थापितानि सन्ति। सम्प्रति एतेषां केन्द्राणां माध्यमेन प्रतिदिनं प्रायः पञ्चशतलिटरमितं गोमूत्रं सङ्गृह्यते। अग्रे क्रयमूल्यं वर्धयित्वा प्रतिलिटरं विंशतिरुप्यकाणि कर्तुमपि योजना अस्ति।

ग्रामेषु स्थापिताः द्विशतलिटरक्षमतायुताः सङ्ग्रहणटङ्क्यः

गोमूत्रस्य सङ्ग्रहणाय ग्रामेषु द्विशतलिटरक्षमतायुताः टङ्क्यः स्थापिताः सन्ति। अनेन पशुपालकेभ्यः गोमूत्रविक्रयाय दूरं गन्तुं न आवश्यकं भवति। ग्रामे एव तस्य क्रयणस्य सङ्ग्रहणस्य च व्यवस्था कृता अस्ति। स्थानीयस्तरे सङ्ग्रहणव्यवस्था स्थापितत्वात् पशुपालकानां, विशेषतः महिलानां, अस्मिन् कार्ये संलग्नीकरणं सुकरं जातम्।

अस्याः सम्पूर्णव्यवस्थायां ग्रामीणमहिलानां महत्त्वपूर्णा भूमिका अस्ति। ग्रामेषु गोमूत्रसङ्ग्रहणे सहयोगं कुर्वतीभ्यः महिलाभ्यः प्रतिलिटरं द्विरुप्यकाणि पारिश्रमिकरूपेण दीयन्ते। अनेन महिलानां कृते ग्रामे एव निवसन्तीनां अतिरिक्तायाः आयस्य नूतनः स्रोतः विकसितः अस्ति।

त्रिशतं महिलाः अंशधारिकाः अभवन्

डॉ. प्रवीणेन सूचितं यत् अस्योपक्रमस्य विस्तारः केवलं गोमूत्रस्य क्रयविक्रयपर्यन्तं सीमितः न कृतः, अपितु सः महिलासशक्तीकरणेन सहापि सम्बद्धः अस्ति। प्रायः त्रिशतं महिलानां सहयोगेन इदं कार्यम् आरब्धम् अस्ति। एतासां सर्वासां महिलानां अंशधारिकारूपेण समावेशः कृतः अस्ति। अनेन महिलाः केवलं सङ्ग्रहणव्यवस्थायाः भागाः न सन्ति, अपितु सम्पूर्णेन आर्थिकप्रारूपेण प्रत्यक्षरूपेण सम्बद्धाः सन्ति।

गोमूत्रसङ्ग्रहणस्य प्रतिफलरूपेण प्राप्तं पारिश्रमिकं महिलानां कृते लघ्वायस्य नियमितं साधनं भवति। अस्य कार्यस्य विस्तारं कृते सति अधिकसंख्याकानां ग्रामीणमहिलानां समावेशस्य सम्भावना अस्ति। विशेषतः गोपालनं कुर्वतां परिवाराणां महिलानां कृते गृहे ग्रामे च निवसन्तीनां आयवर्धनस्य साधनम् एतत् भवितुम् अर्हति।

अस्य प्रारूपस्य उद्देशः कृषौ रासायनिकपदार्थानां विकल्परूपेण गोमूत्राधारितानां उत्पादानां प्रोत्साहनमपि अस्ति। अनेन एकतः गोवंशात् प्राप्तानां उत्पादानाम् उपयोगः वर्धिष्यते, अपरतः प्राकृतिककृषेः जैविककृषेश्च प्रोत्साहनं लप्स्यते। निर्मितानाम् उत्पादानां विक्रयः समितिभ्यः क्रियमाणत्वात् तदर्थं स्थानीयस्तरे विपणिव्यवस्थापि विकसितुं क्रियते।

दुग्धेन सह गोमूत्रादपि भविष्यति आयः

उत्तरप्रदेशगोसेवायोगस्य अध्यक्षः श्यामबिहारीगुप्तः सूचितवान् यत् अद्यावधि ग्रामीणक्षेत्रेषु गोपालनात् प्राप्ता आयः मुख्यतः दुग्धे दुग्धोत्पादेषु च आश्रिता भवति। अस्य प्रयोगस्य माध्यमेन गोमूत्रमपि आर्थिकसंसाधनरूपेण विकसितुं प्रयत्नः क्रियते। प्रतिलिटरं दशरुप्यकाणां मूल्येन क्रयणं भवति चेत् पशुपालकेभ्यः गोवंशात् अतिरिक्तायाः आयस्य प्राप्तिः सम्भवति। अग्रे एतत् मूल्यं प्रतिलिटरं विंशतिरुप्यकाणि यावत् वर्धयितुं या योजना अस्ति, सा सफलाभवति चेत् पशुपालकानाम् आये अधिका वृद्धिः भवितुम् अर्हति। गोवंशात् दुग्धस्य अतिरिक्तं अन्येषां उत्पादानां माध्यमेनापि आयः भवति चेत् तस्य संरक्षणाय आर्थिकाधारः सुदृढः भवितुम् अर्हति। गोमूत्रस्य नियमितक्रयणस्य व्यवस्था विकसिताभवति चेत् गोपालकेभ्यः पशूनां पालनपोषणाय अतिरिक्तं प्रोत्साहनं प्राप्स्यते।

Hindusthan Samachar / Dheeraj Maithani