कांवड़भक्तानां सेवा-सहयोगः समेषामस्माकं कर्तव्यम् : विष्णु दासः
हरिद्वारम्, 10 अगस्तमासः (हि.स.)।श्रावणकावडमेलावसरे शिवभक्तकावडियानां सेवायां निरन्तरं प्रवर्तमानं सेवाशिबिरम्। श्रावणकावडमेलावसरे शिवभक्तकावडियानां सेवायै श्रवणनाथनगरे स्थिते श्रीगुरुसेवकनिवासे उछालीआश्रमस्य सेवाशिबिरे श्रद्धालूनां सेवा निरन्तरं
शिविर में भोजन करते कांवड़िए


हरिद्वारम्, 10 अगस्तमासः (हि.स.)।श्रावणकावडमेलावसरे शिवभक्तकावडियानां सेवायां निरन्तरं प्रवर्तमानं सेवाशिबिरम्।

श्रावणकावडमेलावसरे शिवभक्तकावडियानां सेवायै श्रवणनाथनगरे स्थिते श्रीगुरुसेवकनिवासे उछालीआश्रमस्य सेवाशिबिरे श्रद्धालूनां सेवा निरन्तरं प्रवर्तते। कावडमेलस्य समाप्तिपर्यन्तं प्रवर्तमानस्मिन् सेवाशिबिरे प्रतिदिनं प्रातः दशवादनात् रात्रिपर्यन्तं शिवभक्तेभ्यः भोजनं, पेयजलं, च चायं प्रदीयते।

सोमवासरे वर्षायाः मध्येऽपि आश्रमपरिसरे सेवाकार्यं पूर्णतत्परतया प्रवर्तमानम् आसीत्। दिवसभरम् आश्रमपरिसरे ‘हर हर महादेव’ तथा ‘बम बम भोले’ इत्यादीनां जयघोषैः वातावरणं भक्तिमयं जातम्। वर्षायाः परवाहं न कृत्वा बहुसंख्याकाः कावडियाः सेवाशिबिरं निरन्तरं प्राप्नुवन्तः आसन्, यत्र आश्रमस्य सेवकाः तेभ्यः भोजनं कारयित्वा पेयजलं चायं च प्रदत्तवन्तः।

उछालीआश्रमस्य परमाध्यक्षः महन्तविष्णुदासः स्वयमेव कावडियानां भोजनव्यवस्थायां संलग्नः आसीत्। सः अवदत् यत् कावडमेलावसरे शिवभक्तकावडियानां सेवा भगवतः शिवस्य सेवासदृशी एव अस्ति। कावडियाः कठिनां दीर्घां च यात्रां कृत्वा हरिद्वारात् पवित्रं गङ्गाजलं गृहीत्वा स्वस्वगन्तव्यस्थानानां दिशि अग्रसराः सन्ति। अतः तेषां सेवा सहयोगश्च अस्माकं सर्वेषां कर्तव्यम् अस्ति।

कावडियेभ्यः भोजनं प्रदाय महन्तविष्णुदासः शिवभक्तेभ्यः यात्राकाले संयमं धैर्यं च धारयितुं समाह्वानं कृतवान्। वर्षायाः अविच्छिन्नतायामपि निरन्तरं प्रवर्तमानस्य अस्य सेवाकार्यस्य माध्यमेन कावडयात्रायां श्रद्धया सह सेवायाः सहयोगस्य च भावनापि दृश्यते। आश्रमस्य सेवकाः पूर्णनिष्ठया शिवभक्तानां सेवायां संलग्नाः सन्ति।

सेवाकार्ये महन्तप्रेमदासः, महन्तसीतारामदासः, महन्तकन्हैयादासः, स्वामीराघवेन्द्रदासः, पुनीतदासः, अमनदासः, सुभाषजसवाणी, सुरेशक्हेडा, रमेशक्खनेजा इत्यादयः आश्रमस्य अन्ये सेवकाश्च महत्त्वपूर्णां भूमिकां निर्वहन्ति।

---------------