सेनाप्रमुखः हरियाणाराज्यपालेन सह सभा कृतवान्
चण्डीगढम्, ११ अगस्तमासः (हि.स.)। सेनाप्रमुखः जनरलः धीरज-सेठः मङ्गल-वासरे हरियाणालोकभवने हरियाणा-राज्यपालं प्रो. असीम-कुमार-घोषं मिलितवान्। अस्मिन् संवादे नागरिक-सैनिकसमन्वयस्य क्षेत्रीयसुरक्षायाश्च सम्बद्धेषु विषयेषु चर्चा कृता। सभायां राज्यपत्न्या
सेना प्रमुख ने हरियाणा के राज्यपाल से की बैठक


चण्डीगढम्, ११ अगस्तमासः (हि.स.)। सेनाप्रमुखः जनरलः धीरज-सेठः मङ्गल-वासरे हरियाणालोकभवने हरियाणा-राज्यपालं प्रो. असीम-कुमार-घोषं मिलितवान्। अस्मिन् संवादे नागरिक-सैनिकसमन्वयस्य क्षेत्रीयसुरक्षायाश्च सम्बद्धेषु विषयेषु चर्चा कृता। सभायां राज्यपत्न्या मित्रा-घोष:, पश्चिमकमाण्डस्य सेनाप्रमुखेन लेफ्टिनेन्ट्-जनरल् पुष्पेन्द्र-सिंहेन, राज्यपालस्य सचिवेन विजय-कुमार-भाविकट्टिना, सेनामुख्यालयस्य राज्य-सर्वकारस्य च अन्यैः अधिकारिभिश्च सहभागिता कृता।

भारतीयसेनायाः नेतृत्वं स्वीकृत्य सेनाप्रमुखस्य राज्यपालेन सह एषा प्रथमा साक्षात्कार-वार्ता आसीत्। सभायाम् आन्तरिकसुरक्षा, यूनां सशक्तीकरणम्, अग्निवीराणां रोजगारः, पूर्वसैनिकानां कल्याणम्, आवासीयपरियोजनाः, आत्म-निर्भरतायै स्वीकृताः पदक्षेपाः तथा च सैन्यसञ्चालनसज्जता इत्यादिषु विविधेषु विषयेषु चर्चा कृता। प्राकृतिकापदां सम्मुखीकरणाय तासां प्रभावं न्यूनीकर्तुं च उपायानाम् विषये अपि विचारविमर्शः कृतः।

राज्यसम्बद्धानां भारतीयसेनायाः क्रीड-काणाम् उत्कृष्टप्रदर्शनस्य अपि प्रशंसा कृता। सेनाप्रमुखेन राष्ट्रीयसुरक्षायै राष्ट्रनिर्माणाय च भारतीयसेनायाः प्रति-बद्धतायाः सङ्कल्पस्य च विषये राज्यपालं प्रति विश्वासः प्रदत्तः। सभाया: समापनं स्मरणीयोपहाराणाम् आदान-प्रदानेन अभवत्।

Hindusthan Samachar / Divya Ranjan