सरयोः जलेनकांवड़ियात्रिणो भद्रेश्वरनाथस्याकुर्वन् अभिषेकम्
बस्ती, 11 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य बस्तीजनपदे श्रावणमासस्य त्रयोदश्यां तिथौ शिवभक्तैः सरयूनद्याः पवित्रेण जलेन बाबा भद्रेश्वरनाथधाम्नि सोमवासरस्य मध्यरात्र्यनन्तरं जलाभिषेकस्य क्रमः प्रारब्धः, यः मङ्गलवासरेऽपि निरन्तरं प्रचलितः। अयोध्याय
जिलाधिकारी


शिव भजत5


बस्ती, 11 अगस्तमासः (हि.स.)।

उत्तरप्रदेशस्य बस्तीजनपदे श्रावणमासस्य त्रयोदश्यां तिथौ शिवभक्तैः सरयूनद्याः पवित्रेण जलेन बाबा भद्रेश्वरनाथधाम्नि सोमवासरस्य मध्यरात्र्यनन्तरं जलाभिषेकस्य क्रमः प्रारब्धः, यः मङ्गलवासरेऽपि निरन्तरं प्रचलितः। अयोध्यायाः सरयूनद्याः पवित्रं जलं गृहीत्वा समागतैः लक्षशः कांवडधारिभिः बाबा भद्रेश्वरनाथस्य जलाभिषेकं कृत्वा सुखसमृद्ध्यर्थं प्रार्थना कृता।

कांवडधारिणां समूहाः रात्रेरेव मन्दिरपरिसरं प्राप्तुम् आरब्धवन्तः। हस्तेषु कांवडं जिह्वायां च भोलेनाथस्य नाम धृत्वा श्रद्धालवः पङ्क्तिबद्धाः सन्तः स्वकीयवारस्य प्रतीक्षां कुर्वन्तः दृश्यन्ते स्म। जलाभिषेकाय मन्दिरपरिसरे सुरक्षायाः व्यवस्थायाश्च व्यापकाः प्रबन्धाः कृताः आसन्। पुलिसप्रशासनिकाधिकारिणां निरीक्षणे श्रद्धालवः निर्धारितमार्गेण मन्दिरं प्रति प्रेषिताः।

बहवः कांवडधारिणः मन्दिरं प्राप्तुं पूर्वम् अमहटघाटे अन्येषु स्थानेषु च स्नानं कृतवन्तः। ततः सरयूनद्याः पवित्रं जलं गृहीत्वा बाबा भद्रेश्वरनाथस्य मन्दिरं प्राप्तवन्तः। श्रद्धालुभिः विधिविधानपूर्वकं पूजाऽर्चनां कृत्वा भगवान् शिवस्य जलाभिषेकः कृतः। मन्दिरपरिसरे निरन्तरं निनदद्भिः घण्टाघडियालैः भोलेनाथस्य जयघोषैश्च वातावरणं भक्तिमयं जातम्।

कांवडयात्रां दृष्ट्वा नगरात् आरभ्य भद्रेश्वरनाथधामपर्यन्तं विभिन्नेषु स्थानेषु सेवाशिबिराणि स्थापितानि आसन्। स्वयंसेवकैः कांवडधारिभ्यः भोजनस्य जलस्य प्राथमिकचिकित्सायाश्च व्यवस्था कृता। प्रशासनस्य पक्षतः अपि यात्रामार्गे निरन्तरं निरीक्षणं कृतम्।

अस्मिन् क्रमे जिलाधिकारी कृतिका ज्योत्स्ना तथा पुलिसप्रमुखः मेलाक्षेत्रस्य निरीक्षणं कृत्वा शिवभक्तेषु पुष्पवृष्टिं कृतवन्तौ। जिलाधिकारी अवदत् यत् मेला निर्विघ्नतया सम्पन्नः भवति। कठोरसुरक्षाव्यवस्थायाः प्रबन्धाः कृताः सन्ति। वयं सर्वेषां शिवभक्तानां श्रद्धायाः पूर्णतया सम्मानं कुर्वन्तः तेभ्यः उत्तमां सुरक्षाव्यवस्थां प्रदातुं प्रयत्नं कुर्मः। स्वच्छतायाः व्यवस्थाऽपि कृता अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani