राहुलगान्धिनं झारखण्डस्य छात्राणां क्रन्दनं न श्रूयते - बृजेश-पाठकः
लखनऊ, ११ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्रिणा बृजेश-पाठकेन मङ्गलवासरे प्रदेशकार्यालये आयोजितायां पत्रकारवार्तायां सम्बोधनं कुर्वता उक्तं यत् राहुलगान्धिनं झारखण्डस्य छात्राणां क्रन्दनं न श्रूयते। तस्य छात्राणां भविष्यस्य विषये कापि चि
प्रेस वार्ता करते बृजेश पाठक


लखनऊ, ११ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्रिणा बृजेश-पाठकेन मङ्गलवासरे प्रदेशकार्यालये आयोजितायां पत्रकारवार्तायां सम्बोधनं कुर्वता उक्तं यत् राहुलगान्धिनं झारखण्डस्य छात्राणां क्रन्दनं न श्रूयते। तस्य छात्राणां भविष्यस्य विषये कापि चिन्ता नास्ति।

देशस्य युवावर्गः राहुलगान्धिनः द्वैधचरित्रं सम्यक्तया अवगच्छति। बृजेश-पाठकेन उक्तं यत् राहुलगान्धिः छात्राणां माध्यमेन स्वस्य राजनीतिं सुदृढां कर्तुम् इच्छति। उपमुख्यमन्त्रिणा उक्तं यत् केन्द्रस्य प्रदेशस्य च भाजपासर्वकारौ युवभिः छात्रैश्च सह दृढतया स्थितौ स्तः। वयं छात्राणां यूनां च हितैः सह दृढतया स्थिताः स्मः।

एकस्य प्रश्नस्य उत्तरं ददता सः अवदत् यत् अस्माकं सर्वकारः संसदः सुचारु-सञ्चालनाय सज्जः अस्ति। राहुलगान्धिना संसदीय-इतिहासस्य गरिमायाः पूर्णतया उल्लङ्घनं कृतम् अस्ति। सः पञ्चदशदिनानि यावत् संसदं बाधित्वा जनसामान्येषु भ्रमं प्रसारयति। गृहमन्त्री प्रत्येकं प्रश्नस्य उत्तरं दास्यति, अतः सः उत्तरं श्रोतुं सज्जः भवतु।

पत्रकारवार्तायां भाजपायाः प्रदेशोपाध्यक्षः नीरज-सिंहः, भाजपापक्षस्य मुख्यप्रवक्ता दिनेश-प्रताप-सिंहः, प्रदेशमीडिया-संयो-जकः मनीष-दीक्षितः तथा प्रदेशसह-मीडिया-प्रभारी हिमांशु-दुबे इत्येते प्रमुखरूपेण उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan